महामायाकृतं पुरुषोत्तमस्तोत्रम् ९
महामाया प्रकृतिर्या सा मां स्तौति पुनः पुनः ।
``नमस्तेऽक्षरवासाय परमेशाय ते नमः ॥ १०॥
अवतारस्वरूपायाऽवतारिणे च ते नमः ।
मायाऽहं भवतः शक्तिर्मायालोकाश्च ते प्रभो ॥ ११॥
ईश्वराणामालयाश्च तवैव भूमिकास्त्विमाः ।
तत्त्वानि च समस्तानि तवैव कार्यकाणि वै ॥ १२॥
पुराणपुरुषस्त्वं वै सर्वकारणकारणम् ।
श्रीभूलीलारमानाथ माणिकीमुक्तिकापते ॥ १३॥
प्रज्ञापद्मावतीकान्त नमस्ते सुखदापते ।
लक्ष्मीपद्मापते तुभ्यं नमो नारायणाय वै ॥ १४॥
सर्वेश्वरस्वरूपाय सर्वदेवात्मने नमः ।
अनन्तमूर्तये कृष्णनारायण हरे नमः ॥ १५॥
तेऽच्युताय च कान्ताय परमेशाय ते नमः ।
सर्वज्ञाय समस्ताय गोपालात्मज ते नमः ॥ १६॥
सर्वसृष्ट्यात्मने तुभ्यं नमस्ते परमात्मने ।
ब्रह्मणे ज्योतिषे तुभ्यं नमस्ते शुचिवर्चसे ॥ १७॥
प्रसवित्रे नमः पित्रे सर्गस्थित्यन्तहेतवे ।
नारायणाय च नमः सर्वात्मान्तरवर्तिने ॥ १८॥
अनन्तदिव्यगुणवन्! नमः पुमर्थदायिने ।
व्यूहरूपाय च नमः पञ्चावस्थास्वरूपिणे ॥ १९॥
प्रसीद भगवन् विष्णो सर्वलोकहिताय वै ।
आत्मानो ज्ञानहीना वै निराकारा निरिन्द्रियाः ॥ २०॥
सर्वानुष्ठानरहिता वर्तन्ते च निराश्रयाः ।
तेषां लोकाँश्च देहाँश्च दातुमर्हसि वै मयि ॥ २१॥
लीलाविभूतिं श्रीकृष्ण यथापूर्वं प्रकल्पय ।
चेतनाचेतनं कृत्स्नं जगत्स्थावरजङ्गमम् ॥ २२॥
पश्य लीनं मायिकं वै मयि सुप्तं प्रबोधय ।
प्रकृत्या वै मया सार्धं सृजस्व परमेश्वर ॥ २३॥
धर्माधर्मौ सुखं दुःखं भावयित्वा मयि प्रभो ।
मामधिष्ठाय वै लीलां श्रिया कर्तुं त्वमर्हसि'' ॥ २४॥
इत्येवं चार्थितश्चाऽहं लक्ष्मि पूर्वे हि मायया ।
तस्यामेव हि मायायां जगत् स्रष्टुं प्रचक्रमे ॥ २५॥
इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य तृतीयखण्डे
७१-अध्यायान्तर्गतं महामायाकृतं पुरुषोत्तमस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय ७१/१०-२५॥
lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 71/10-25..
Proofread by PSA Easwaran