मङ्गलाचरणम् ५

मङ्गलाचरणम् ५

श्रीगणेशाय नमः यत्पाद-द्वय-सेवनान्मनुजनो मोहार्णवं लङ्घयन् ख्यातिं याति परामिलातल इह प्राज्यश्रियं धारयन् । भव्यं भव्यगुणाऽन्वितं बुधवरं सर्वार्थदं मङ्गलं श्रीमन्तं पितरञ्च सन्तशरणं नित्यं नमस्कुर्महे ॥ १॥ श्रीमद्वाचमुमेश्वरौ प्रणिपतन्नाराधनीयान् गुरून् सर्वेषां हितकाम्ययाऽत्र विविधान् स्वाऽभीष्टप्राप्त्यर्थकान् । ख्यातानां बहु-स्तोत्र-भक्तवचसां सङ्गृह्य ग्रन्थे मया स्तोत्राणां शिवदत्तमिश्रविदुषा चाऽऽलेखि रत्नाकरः ॥ २॥ जेतुं यस्त्रिपुरं हरेण हरिणा व्याजाद् बलिं बध्नता स्रष्टुं वारिभवोद्भवेन भुवनं शेषेण धर्तुं धराम् । पार्वत्या महिषासुर-प्रमथने सिद्धाधिपैः सिद्धये ध्यातः पञ्चशरेण विश्वजितये पायात् स नागाननः ॥ ३॥ विघ्न-ध्वान्त-निवारणैक-तरणि-र्विघ्नाटवी-हव्यवाड् विघ्न-व्याल-कुलाभिमान-गरुडो विघ्नेभ-पञ्चाननः । विघ्नोत्तुङ्ग-गिरिप्रभेदनपवि-र्विघ्नाम्बुधेर्वाडवो विघ्नाघौघ-घन-प्रचण्डपवनो विश्वेश्वरः पातु नः ॥ ४॥ स जयति सिन्धुरवदनो देवो यत्पादपङ्कजस्मरणम् । वासरमणिरिव तमसां राशिं नाशयति विघ्नानाम् ॥ ५॥ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ ६॥ मूर्तित्वे परिकल्पितः शशभृतो वर्त्माऽपुनर्जन्मना- मात्मेत्यात्मविदां ऋतुश्च यजतां भर्ताऽमर-ज्योतिषाम् । लोकानां प्रलयोद्भव-स्थिति-विभुश्चानेकधा यः श्रुतौ वाचं नः स ददात्वनेककिरणस्त्रैलोक्यदीपो रविः ॥ ७॥ व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् । पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ ८॥ अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः । अभाललोचनः शम्भुर्भगवान् बादरायणः ॥ ९॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १०॥ इति शिवदत्तमिश्रविरचितं मङ्गलाचरणं समाप्तम् । Proofread by Aruna Narayanan narayanan.aruna at gmail.com
% Text title            : mangalAcharaNam 5
% File name             : mangalAcharaNam5.itx
% itxtitle              : maNgalAcharaNam 5 (shivadattamishravirachitaM)
% engtitle              : mangalAcharaNam 5
% Category              : vishhnu, mangala
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : Shivadatta Mishra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : Brihat Stotra Ratnakar Shivadutta Shastri
% Latest update         : February 19, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org