मुनिभिः कृतं १ श्रीकृष्णस्तोत्रम्
ब्रह्मोवाच ।
नाथानिर्वचनीयोऽसि भक्तानुग्रहविग्रहः ।
वेदानिर्वचनीयं च कस्त्वां स्तोतुमिहेश्वरः ॥ १९॥
महादेव उवाच ।
देहेषु देहिनां शश्वत्स्थितं निर्लिप्तमेव च ।
कर्मिणां कर्मणां शुद्धं साक्षिणां साक्षतं विभुम् ।
किं स्तौमि रूपशून्यं च गुणशून्यं च निर्गुणम् ॥ २०॥
अनन्त उवाच ।
किंवा जानाम्यहं नाथ त्वामज्ञोऽनन्तमीश्वरम् ।
अनन्तकोटिब्रह्माण्डकारणं दुःखतारणम् ॥ २१॥
महाविष्णोश्च लोम्नां च विवरेषु जलेषु च ।
सन्ति विश्वान्यसङ्ख्यानि चित्राणि कृत्रिमाणि च ॥ २२॥
सन्ति सन्तश्च देवाश्च ब्रह्मविष्णुशिवात्मकाः ।
त्वदंशाः प्रतिबिम्बेषु तीर्थानि भारतं तथा ॥ २३॥
ब्रह्माण्डैकस्थितोऽहं च सूक्ष्मनागस्वरूपकः ।
स्थापितश्च त्वया कूर्मे गजेन्द्रे मशको यथा ॥ २४॥
परमाणुपरं सूक्ष्मं विश्वेषु नास्ति कुत्रचित् ।
महाविष्णोः परं स्थूलं समो नास्ति च कुत्रचित् ॥ २५॥
महाविष्णोः परस्त्वं च त्वत्परो नास्ति कश्चन ।
स्थूलात्स्थूलतरो देवः सूक्ष्मात्सूक्ष्मतमो महान् ॥ २६॥
आधारश्च महाविष्णो जलरूपो भवान्स्वयम् ।
जलाधारो हि गोलोकस्त्वं च स्थावररूपधृक् ॥ २७॥
सर्वाधारो महान्वायुः श्वासनिःश्वासरूपकः ।
भक्तानुग्रहदेहस्य नित्यस्य भवतो विभो ॥ २८॥
वक्त्रैर्बहुतरैर्वाऽथ त्वया दत्तैः पुरैव च ।
स्तोतुमिच्छामि त्वद्योगं न दत्तं ज्ञानमैश्वरम् ॥ २९॥
देवा ऊचुः ।
त्वामनन्तं यदि स्तोतुं देवोऽनन्तो न हीश्वरः ।
न हि स्वयं विधाता च न हि ज्ञानात्मकः शिवः ।
सरस्वती जडीभूता किं कुर्मः स्तवनं वयम् ॥ ३०॥
मुनीन्द्रा ऊचुः ।
वेदा न शक्ताः स्तोतुं चेत्त्वां चैव ज्ञातुमीश्वरम् ।
वयं वेदविदः सन्तः किं कुर्मः स्तवनं तव ॥ ३१॥
इदं स्तोत्रं महापुण्यं देवैश्च मुनिमिः कृतम् ।
यः पठेत्संयतः शुद्धः पूजाकाले च भक्तितः ॥ ३२॥
इह लोके सुखं भुक्त्वा लब्ध्वा ज्ञानं निरञ्जनम् ।
रत्नयानं समारुह्य गोलोकं स च गच्छति ॥ ३३॥
इति श्रीब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मखण्डे उत्तरे
शाततमाध्यायान्तर्गतं ब्रह्मादिदेवैः मुनिभिश्च कृतं
श्रीकृष्णस्तोत्रं समाप्तम् ।
ब्रह्मवैवर्तपुराण । श्रीकृष्णजन्म, उत्तरभाग । अध्याय १००/१९-३३॥
brahmavaivartapurANa . shrIkRRiShNajanma, uttarabhAga . adhyAya 100/19-33..
Proofread by PSA Easwaran