मुनिभिः कृतं २ विष्णुस्तोत्रम्
अन्तर्धानगताः सर्वे मुनयः संशितव्रताः ।
अस्तुवन्निशि देवेशं जायमानं जनार्दनम् ॥ १॥
एष एव जगत्स्वामी वसुदेवस्य वेश्मनि ।
बाल्यं वपुः समास्थाय तूष्णीमास्तेऽथ पश्यत ॥ २॥
पश्यतैनं सुविश्रब्धाः साक्षाल्लोकेश्वरं प्रभुम् ।
मानुषीं तनुमास्थाय लम्बन्तं देवकीकरे ॥ ३॥
एष हन्तुं दुरात्मानं कंसमाविर्भविष्यति ।
नमस्तस्मै जगद्धात्रे विष्णवे कृष्णरूपिणे ।
अचिन्त्यविभवे तस्मै विश्वकर्त्रे नमो नमः ॥ ४॥
इति हरिवंशान्तर्गतं मुनिभिः कृतं विष्णुस्तोत्रं सम्पूर्णम् ।
हरिवंश । अनुबन्ध - परिशिष्ट । अध्याय ४८.१६॥
harivaMsha . anubandha - parishiShTa . adhyAya 48.16..
Proofread by PSA Easwaran