मुनिकृता श्रीहरिस्तुतिः
(पञ्चचामरम्)
समस्त पापघातिनं समस्ततापनाशिनं
समस्तदुःखहारिणं समस्तसौख्यकारिणम् ।
समस्तधामधारिणं समस्तलोकपालिनं
नमामि धर्मनन्दनं समस्तलोकवल्लभम् ॥ १॥
कुशास्त्रमार्गखण्डकं सुशास्त्रराद्धमण्डकं
कुमार्गचित्तदण्डकं ह्यहिंसनाध्वपोषकम् ।
निजाश्रितारिनाशकं स्वमूर्तिशर्मदायकं
नमामि धर्मनन्दनं समस्तलोकवल्लभम् ॥ २॥
अधर्ममूलछेदकं सदुद्धवाध्वचालकं
समग्रधर्मशंसकं विमोक्षबोधदायकम् ।
सुनीतिरीतिदर्शकं प्रपन्नजीवरक्षकं
नमामि धर्मनन्दनं समस्तलोकवल्लभम् ॥ ३॥
प्रकाशदं प्रभावदं प्रतापदं प्रतोषदं
सुयुक्तिदं सुतुष्टिदं सुपुष्टिदं सुबुद्धिदम् ।
विबोधदं विनोददं विमोददं विमोक्षदं
नमामि धर्मनन्दनं समस्तलोकवल्लभम् ॥ ४॥
सुदर्शदं सुभद्रदं सुशान्तिदं सुकान्तिदं
क्षमाकरं यशस्करं शुभङ्करं सुखङ्करम् ।
यशस्विनं तपस्विनं तरस्विनं च वाग्मिनं
नमामि धर्मनन्दनं समस्तलोकवल्लभम् ॥ ५॥
नितान्तधामराजितं स्वमुक्तवृन्दसेवितं
मुनीन्द्रजातपूजितं स्वभक्तसङ्घप्रार्थितम् ।
सुरासुरेन्द्रवन्दितं क्षमादयादिमण्डितं
नमामि धर्मनन्दनं समस्तलोकवल्लभम् ॥ ६॥
समस्तसिद्धिदायकं तथापि सक्तिवर्जितं
समस्त भुक्तिदायकं तथापि भोगवर्जितम् ।
समस्तलोकपालकं तथापि गर्ववर्जितं
नमामि धर्मनन्दनं समस्तलोकवल्लभम् ॥ ७॥
यदीयभालपट्टके निभाल्यते परा प्रभा
यदीयपादपङ्कजे सुनूपुरोत्थसंविभा ।
यदीयपाणिपल्लवे वराभयात्मिका कृपा
नमामि धर्मनन्दनं समस्तलोकवल्लभम् ॥ ८॥
इति श्रीस्वामिनारायणबापाचरित्रामृतसागरे चतुर्थप्रवाहे
नव तरङ्गे मुनिकृता श्रीहरिस्तुतिः सम्पूर्णा ।