नागपत्नीभिः कृतं ३ श्रीकृष्णस्तोत्रम्

नागपत्नीभिः कृतं ३ श्रीकृष्णस्तोत्रम्

नागपत्न्य ऊचुः । न्याय्यो हि दण्डः कृतकिल्बिषेऽस्मिं- स्तवावतारः खलनिग्रहाय । रिपोः सुतानामपि तुल्यदृष्टे- र्धत्से दमं फलमेवानुशंसन् ॥ ३३॥ अनुग्रहोऽयं भवतः कृतो हि नो दण्डोऽसतां ते खलु कल्मषापहः । यद्दन्दशूकत्वममुष्य देहिनः क्रोधोऽपि तेऽनुग्रह एव सम्मतः ॥ ३४॥ तपः सुतप्तं किमनेन पूर्वं निरस्तमानेन च मानदेन । धर्मोऽथ वा सर्वजनानुकम्पया यतो भवांस्तुष्यति सर्वजीवः ॥ ३५॥ कस्यानुभावोऽस्य न देव विद्महे तवाङ्घ्रिरेणुस्पर्शाधिकारः । यद्वाञ्छया श्रीर्ललनाचरत्तपो विहाय कामान् सुचिरं धृतव्रता ॥ ३६॥ न नाकपृष्ठं न च सार्वभौमं न पारमेष्ठ्यं न रसाधिपत्यम् । न योगसिद्धीरपुनर्भवं वा वाञ्छन्ति यत्पादरजःप्रपन्नाः ॥ ३७॥ तदेष नाथाप दुरापमन्यै- स्तमोजनिःक्रोधवशोऽप्यहीशः । संसारचक्रे भ्रमतः शरीरिणो यदिच्छतः स्याद्विभवः समक्षः ॥ ३८॥ नमस्तुभ्यं भगवते पुरुषाय महात्मने । भूतावासाय भूताय पराय परमात्मने ॥ ३९॥ ज्ञानविज्ञाननिधये ब्रह्मणेऽनन्तशक्तये । अगुणायाविकाराय नमस्ते प्राकृताय च ॥ ४०॥ कालाय कालनाभाय कालावयवसाक्षिणे । विश्वाय तदुपद्रष्ट्रे तत्कर्त्रे विश्वहेतवे ॥ ४१॥ भूतमात्रेन्द्रियप्राणमनोबुद्ध्याशयात्मने । त्रिगुणेनाभिमानेन गूढस्वात्मानुभूतये ॥ ४२॥ नमोऽनन्ताय सूक्ष्माय कूटस्थाय विपश्चिते । नानावादानुरोधाय वाच्यवाचकशक्तये ॥ ४३॥ नमः प्रमाणमूलाय कवये शास्त्रयोनये । प्रवृत्ताय निवृत्ताय निगमाय नमो नमः ॥ ४४॥ नमः कृष्णाय रामाय वसुदेवसुताय च । प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥ ४५॥ नमो गुणप्रदीपाय गुणात्मच्छादनाय च । गुणवृत्त्युपलक्ष्याय गुणद्रष्ट्रे स्वसंविदे ॥ ४६॥ अव्याकृतविहाराय सर्वव्याकृतसिद्धये । हृषीकेश नमस्तेऽस्तु मुनये मौनशीलिने ॥ ४७॥ परावरगतिज्ञाय सर्वाध्यक्षाय ते नमः । अविश्वाय च विश्वाय तद्द्रष्ट्रेऽस्य च हेतवे ॥ ४८॥ त्वं ह्यस्य जन्मस्थितिसंयमान् प्रभो गुणैरनीहोऽकृतकालशक्तिधृक् । तत्तत्स्वभावान् प्रतिबोधयन् सतः समीक्षयामोघविहार ईहसे ॥ ४९॥ तस्यैव तेऽमूस्तनवस्त्रिलोक्यां शान्ता अशान्ता उत मूढयोनयः । शान्ताः प्रियास्ते ह्यधुनावितुं सतां स्थातुश्च ते धर्मपरीप्सयेहतः ॥ ५०॥ अपराधः सकृद्भर्त्रा सोढव्यः स्वप्रजाकृतः । क्षन्तुमर्हसि शान्तात्मन् मूढस्य त्वामजानतः ॥ ५१॥ अनुगृह्णीष्व भगवन् प्राणांस्त्यजति पन्नगः । स्त्रीणां नः साधुशोच्यानां पतिः प्राणः प्रदीयताम् ॥ ५२॥ विधेहि ते किङ्करीणामनुष्ठेयं तवाज्ञया । यच्छ्रद्धयानुतिष्ठन् वै मुच्यते सर्वतोभयात् ॥ ५३॥ इति श्रीमद्भागवतमहापुराणे दशमस्कन्धे पूर्वार्धे षोडशाध्यायान्तर्गतं नागपत्नीभिः कृतं श्रीकृष्णस्तोत्रं समाप्तम् । भागवतपुराण । अध्याय १०/१६/३३-५३॥ bhAgavatapurANa . adhyAya 10/16/33-53.. Proofread by PSA Easwaran
% Text title            : Nagapatnibhih Kritam 3 Shri Krishna Stotram
% File name             : nAgapatnIbhiHkRRitaM3shrIkRRiShNastotram.itx
% itxtitle              : shrIkRiShNastotram (nAgapatnIbhiHkRitaM 3 bhAgavatapurANAntargatam nyAyyo hi daNDaH kRitakilbiShe.asmiM)
% engtitle              : nAgapatnIbhiHkRRitaM 3 shrIkRRiShNastotram
% Category              : vishhnu, vishnu, krishna, bhAgavatapurANa, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : bhAgavatapurANa | adhyAya 10/16/33-53||
% Indexextra            : (Text 1, 2, 3, Scans 1, 2, 3, 4, 5, 6, Hindi)
% Latest update         : October 1, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org