नारायणाष्टोत्तरशतनामावलिः
ॐ नारायणाय नमः ।
ॐ नराय नमः ।
ॐ शौरये नमः ।
ॐ चक्रपाणये नमः ।
ॐ जनार्दनाय नमः ।
ॐ वासुदेवाय नमः ।
ॐ जगद्योनये नमः ।
ॐ वामनाय नमः ।
ॐ ज्ञानपञ्जराय नमः ।
ॐ श्रीवल्लभाय नमः । १०
ॐ जगन्नाथाय नमः ।
ॐ चतुर्मूर्तये नमः ।
ॐ चतुर्भुजाय नमः ।
ॐ देवदेवाय नमः ।
ॐ हृषीकेशाय नमः ।
ॐ शङ्कराय नमः ।
ॐ गरुडध्वजाय नमः ।
ॐ नारसिंहाय नमः ।
ॐ महादेवाय नमः ।
ॐ स्वयम्भुवे नमः । २०
ॐ भुवनेश्वराय नमः ।
ॐ श्रीधराय नमः ।
ॐ देवकीपुत्राय नमः ।
ॐ पार्थसारथये नमः ।
ॐ अच्युताय नमः ।
ॐ शङ्खपाणये नमः ।
ॐ परञ्ज्योतिषे नमः ।
ॐ आत्मज्योतिषे नमः ।
ॐ अचञ्चलाय नमः ।
ॐ श्रीवत्साङ्काय नमः । ३०
ॐ अखिलाधाराय नमः ।
ॐ सर्वलोकपतये नमः ।
ॐ प्रभवे नमः ।
ॐ त्रिविक्रमाय नमः ।
ॐ त्रिकालज्ञाय नमः ।
ॐ त्रिधाम्ने नमः ।
ॐ करुणाकराय नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ सर्वगाय नमः ।
ॐ सर्वस्मै नमः । ४०
ॐ सर्वेशाय नमः ।
ॐ सर्वसाक्षिकाय नमः ।
ॐ हरये नमः ।
ॐ शार्ङ्गिणे नमः ।
ॐ हराय नमः ।
ॐ शेषाय नमः ।
ॐ हृषीकेशाय नमः ।
ॐ हलायुधाय नमः ।
ॐ सहस्रबाहवे नमः ।
ॐ अव्यक्ताय नमः । ५०
ॐ सहस्राक्षाय नमः ।
ॐ अक्षराय नमः ।
ॐ क्षराय नमः ।
ॐ गजारिघ्नाय नमः ।
ॐ केशवाय नमः ।
ॐ केशिमर्दनाय नमः ।
ॐ कैटभारये नमः ।
ॐ अविद्यारये नमः ।
ॐ कामदाय नमः ।
ॐ कमलेक्षणाय नमः । ६०
ॐ हंसशत्रवे नमः ।
ॐ अधर्मशत्रवे नमः ।
ॐ काकुत्स्थाय नमः ।
ॐ खगवाहनाय नमः ।
ॐ नीलाम्बुदद्युतये नमः ।
ॐ नित्याय नमः ।
ॐ नित्यतृप्ताय नमः ।
ॐ नित्यानन्दाय नमः ।
ॐ सुराध्यक्षाय नमः ।
ॐ निर्विकल्पाय नमः । ७०
ॐ निरञ्जनाय नमः ।
ॐ ब्रह्मण्याय नमः ।
ॐ पृथिवीनाथाय नमः ।
ॐ पीतवाससे नमः ।
ॐ गुहाश्रयाय नमः ।
ॐ वेदगर्भाय नमः ।
ॐ विभवे नमः ।
ॐ विष्णवे नमः ।
ॐ श्रीमते नमः ।
ॐ त्रैलोक्यभूषणाय नमः । ८०
ॐ यज्ञमूर्तये नमः ।
ॐ अमेयात्मने नमः ।
ॐ वरदाय नमः ।
ॐ वासवानुजाय नमः ।
ॐ जितेन्द्रियाय नमः ।
ॐ जितक्रोधाय नमः ।
ॐ समदृष्टये नमः ।
ॐ सनातनाय नमः ।
ॐ भक्तप्रियाय नमः ।
ॐ जगत्पूज्याय नमः । ९०
ॐ परमात्मने नमः ।
ॐ असुरान्तकाय नमः ।
ॐ सर्वलोकानामन्तकाय नमः ।
ॐ अनन्ताय नमः ।
ॐ अनन्तविक्रमाय नमः ।
ॐ मायाधाराय नमः ।
ॐ निराधाराय नमः ।
ॐ सर्वाधाराय नमः ।
ॐ धराधराय नमः ।
ॐ निष्कलङ्काय नमः । १००
ॐ निराभासाय नमः ।
ॐ निरामयाय नमः ।
ॐ भक्तवश्याय नमः ।
ॐ महोदाराय नमः ।
ॐ पुण्यकीर्तये नमः ।
ॐ पुरातनाय नमः ।
ॐ त्रिकालज्ञाय नमः ।
ॐ चतुर्भुजाय नमः ।
ॐ श्रीलक्ष्मीनारायणस्वामिने नमः । १०८
इति श्रीनारायणाष्टोत्तरशतनामावलिः समाप्ता ।