नारायणीश्रीकृता पुरुषोत्तमस्तुतिः

नारायणीश्रीकृता पुरुषोत्तमस्तुतिः

श्रीनारायणीश्रीरुवाच । ॐ नमः श्रीपरब्रह्माऽक्षरातीताय चक्रिणे । परेशाय ध्वजशूलधनुश्चिह्नाय शार्ङ्गिणे ॥ १॥ सर्वकान्ताय कान्ताय सर्वान्तर्यामिणे नमः । मुक्तबन्धाय हृद्याय नमः सर्वावतारिणे ॥ २॥ यस्मात् सर्वमिदं जातं येन पुष्टिं प्रयाति च । यत्र स्थितं भवेदन्ते तस्मै कान्ताय ते नमः ॥ ३॥ यस्मात् सर्वे ह्यवताराः श्रीकृष्णाद्या भवन्त्यपि । कालो माया यदंशाश्च तस्मै कान्ताय ते नमः ॥ ४॥ याऽह वै सुखदा लक्ष्मीः विश्वेश्वरसुता तव । प्रिया भूत्वाऽभवं नारायणीश्रीस्ते नमो नमः ॥ ५॥ अनन्ताः कन्यका जाता नारायण्यो हरेः प्रियाः । अनादिश्रीकृष्णनारायणाय ते नमो नमः ॥ ६॥ लक्ष्मीकान्ताय कान्ताय राधाकान्ताय ते नमः । माणिक्यावाहिने रमापतये ते नमो नमः ॥ ७॥ श्रीशायते पद्मावतीपतये च नमो नमः । ब्रह्मप्रियाशनाद्यानां पतये ते नमो नमः ॥ ८॥ षष्ठी या मनसा देवी तद्धवाय च ते नमः । दीपावलीनां पतये तलाजापतये नमः ॥ ९॥ कामधेनुप्रगोपायाऽऽर्जन्तीनां पतये नमः । क्रोधनेशाय च धरापुत्रीणां पतये नमः ॥ १.१०॥ सूचीकान्ताय च वनदेवीजेशाय ते नमः । दामनीपतये कङ्कतालिकेशाय ते नमः ॥ ११॥ पितृकन्याप्रकान्ताय जनपितृसुतेशिने । पितृदासीश्वरायाऽपि बालकृष्णाय ते नमः ॥ १२॥ रासातलीनां कान्ताय वासन्तिकेश ते नमः । सालमालीयनारीणामीश्वराय च ते नमः ॥ १३॥ स्वस्तिकीनागकन्यानां पतये ते नमो नमः । नागिनीनां च पतये परमेशाय ते नमः ॥ १४॥ शावदीनीप्रकान्ताय परेशाय च ते नमः । ऐन्द्रजालिककान्तानां पतये ते नमो नमः ॥ १५॥ विद्यानाथाय च सरस्वतीशाय च ते नमः । लाक्ष्मणीशाय देवाय नाडिकेशाय ते नमः ॥ १६॥ गान्धर्वीणां च पतये जुम्मसेम्लीश ते नमः । सान्तपनीवरायाऽपि सौरतीपतये नमः ॥ १७॥ महाबालेश्वरीशाय चैलबीलेश ते नमः । दाक्षजावङ्गरीशाय चौष्णीशाय च ते नमः ॥ १८॥ प्राचीनीनां पतये ते पिशङ्गीपतये नमः । सान्ताणरीश्वर कृष्ण शैबीनां पतये नमः ॥ १९॥ थार्कूटस्थीप्रमदेश वीरजारीश ते नमः । शाक्त्यक्षीप्रमदानाथ पिशाचीश्वर ते नमः ॥ १.२०॥ कालिमाशीश्वर कृष्ण दीनबन्धो च ते नमः । औरलकैतवीशाय क्राथकीपतये नमः ॥ २१॥ पृथुपुत्रीस्वामिने ते चोष्ट्रालीपतये नमः । हाङ्कारीस्वामिने जयकाष्ठजेशाय ते नमः ॥ २२॥ तीराणीपतये नाथ चाल्वीनारीश ते नमः । जीनवर्द्धिसुतेशायाऽनाथानाथाय ते नमः ॥ २३॥ प्रकीर्णप्रमदेशाय परमेशाय ते नमः । आल्पकैतवीकान्ताय पारीशानीश ते नमः ॥ २४॥ इन्दुरायसुतेशाय मुद्राण्डीपतये नमः । गण्डभूपसुतेशाय लीनोर्णापतये नमः ॥ २५॥ बार्हच्छारीस्वामिने ते बाललीनीश ते नमः । वारसिंहीस्वामिने ते रायगामीश ते नमः ॥ २६॥ फैनतान्तवीकान्ताय स्तोकहोमीश ते नमः । काष्ठयानीस्वामिने ते कोलकीपतये नमः ॥ २७॥ दैनमानीस्वामिने ते मम कान्ताय ते नमः । परेशाय नमो रायकिन्नटीपतये नमः ॥ २८॥ रायकोटीस्वरीशाय नमस्ते परमात्मने । रायरणजित्पुत्रीश नमस्ते हरये नमः ॥ २९॥ रायवाकक्षिकेशाय रायमारीशकेशिने । रायबालेश्वरीशाय रायलम्बारिकेशिने ॥ १.३०॥ नमस्ते रायनवारिकेश श्रीपरमात्मने । रायहूण्डेशिकेशाय रायकूपेशिकेशिने ॥ ३१॥ कालीमण्डीस्वामिने ते वनजेलेशिकेशिने । पारावारपिबीशाय कोटिशेशाय ते नमः ॥ ३२॥ सतीशीशाय देवाय त्रेताकर्कशिकेशिने । आण्डजरास्वामिने ते बाल्यराजसीस्वामिने ॥ ३३॥ रायसोमनीस्वामिने ते सर्वेशाय नमो नमः । उरुगवाक्षिकेशाय पराङ्व्रतनिकेशिने ॥ ३४॥ रायस्वस्त्रीश ते कृष्णनारायण प्रभो नमः । ऐशानपानीश कान्त राजारायीश ते नमः ॥ ३५॥ मङ्गलादिप्रकान्ताय चाजनाभीश्वराय च । नमः कौबेरिकेशाय माहेन्द्रीपतये नमः ॥ ३६॥ यमीनां स्वामिने कृष्ण वायवीशाय ते नमः । वैश्वकर्मीस्वामिने ते वार्क्षीणां पतये नमः ॥ ३७॥ रौद्रीणां पतये वह्निपुत्रीणां पतये नमः । श्रावणीनां च पतये खानिजीशाय ते नमः ॥ ३८॥ सांवत्सरीस्वामिने ते गोपीनां पतये नमः । प्राचीनीनां स्वामिने ते पिशङ्गीस्वामिने नमः ॥ ३९॥ राशियानीश्वर रोमायनीश्वर च ते नमः । पारशीपतये कृष्ण धीवरीपतये नमः ॥ १.४०॥ किन्नरीपतये कृष्णाऽमरीणां पतये नमः । गौरीणां पतये परीपतये ते नमो नमः ॥ ४१॥ आब्रिक्तीस्वामिने हारितीशाय ते नमो नमः । पातालीपतये स्वर्गीपतये ते नमो नमः ॥ ४२॥ अप्सरसां दिनेशाय ब्रह्मसरोऽधिशासिने । गान्धर्वीणां पतये ते कुशलेशाय ते नमः ॥ ४३॥ विद्युन्मणिस्वामिने ते भौमीनां पतये नमः । दानवीनां पतये ते शक्तीनां पतये नमः ॥ ४४॥ काशिकाकन्याकानाथ धेनुपालीश ते नमः । कान्ताकान्तेश सर्वेश मम प्राणेश ते नमः ॥ ४५॥ नमः श्रीकम्भरापुत्र सन्तुष्टाऽनुज ते नमः । त्वया व्याप्तमिदं सर्वं सर्वान्तर्यामिणे नमः ॥ ४६॥ श्रीकृष्णाय विष्णवे स्वामिने मत्पतये नमः । लक्ष्मीशेशस्त्वमेवर्षिसत्तमस्त्वं नृपोत्तमः ॥ ४७॥ त्वं यज्ञस्त्वं जाठरश्च तृप्तिदस्त्वं परेश्वर । प्राप्य त्वां त्वर्बुदाद्याश्च नार्यो मुक्तिं गतास्त्विह ॥ ४८॥ मुक्ताश्च मुक्तिमापन्ना नरा जाताः परार्धगाः । त्वां भजित्वा स्वः प्रयान्ति जनं सत्यं प्रयान्ति च ॥ ४९॥ त्वां भजित्वा च वैकुण्ठं वैराजक्ष्मां प्रयान्ति च । त्वां भजित्वाऽमृतलोकं गोलोकं च प्रयान्ति वै । अक्षरं परमं धाम त्वां भजित्वा प्रयान्ति हि ॥ १.५०॥ इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य तृतीयखण्डे प्रथमाध्यायान्तर्गतं नारायणीश्रीकृता पुरुषोत्तमस्तुतिः । लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय १/१-५०॥ lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 1/1-50.. Proofread by PSA Easwaran
% Text title            : Narayanishrikrita Purushottama Stuti
% File name             : nArAyaNIshrIkRRitApuruShottamastutiH.itx
% itxtitle              : puruShottamastutiH (nArAyaNIshrIkRitA lakShmInArAyaNIyasaMhitAntargatA)
% engtitle              : nArAyaNIshrIkRRitA puruShottamastutiH
% Category              : vishhnu, vishnu, lakShmInArAyaNIyasaMhitA, stuti
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : lakShmInArAyaNIyasaMhitA | khaNDa 3 | adhyAya 1/1-50||
% Indexextra            : (Scans 1, 2, 3, 4)
% Latest update         : February 28, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org