नारायणप्रोक्तं हरिस्तोत्रम्
सात्वतानां हृदि साक्षान्नारायणो वसाम्यहम् ।
नमस्तस्मै परेशाय तज्जलाय नमो नमः ॥ ५८॥
अनन्तशक्त्यधिष्ठानान्तरात्मँस्ते नमो नमः ।
अदृश्यरूपिणेऽलक्ष्यवर्त्मने ब्रह्मणे नमः ॥ ५९॥
दुरीतनाशनेऽखिलप्राणिरूपाय ते नमः ।
असन्निरसननाम्ने सात्त्वताम्पतये नमः ॥ ६०॥
दीनानां बन्धवे तुभ्यं स्वधाम्नि रंस्यते नमः ।
निरस्तातिशयसाम्यगुणैश्वर्यवते नमः ॥ ६१॥
अयोगिनां विदूराय स्वहृदिस्थाय ते नमः ।
यत्कीर्तिश्रवदृश्यार्हा स्मृतिस्तोत्राणि सर्वथा ॥ ६॥
कल्मषाणि विधुन्वन्ति तस्मै भद्रकृते नमः ।
प्रपन्ना यत्पदोपास्त्या मात्रास्पृशिं विधूय च ॥ ६३॥
निराशया ब्रह्मगतिं यान्ति तस्मै च ते नमः ।
शीलदानक्रियामन्त्रयज्ञत्यागतपोव्रताः ॥ ६४॥
यदर्पणमृते क्षेमं विन्दन्ति न हि ते नमः ।
श्वादमत्स्यादचर्मकृद्यवनाऽऽभीरसङ्कराः ॥ ६५॥
कङ्कशबरझल्लादपारधिर्गणिकापिवाः ।
किरातखसघाताश्च पापाश्चान्येऽपि जन्तवः ॥ ६६॥
यदाश्रिताश्रयाच्छीघ्रं शुद्ध्यन्ति ते नमो नमः ।
अवतारमयः सोऽयं साधुसाध्वीमयः प्रभुः ॥ ६७॥
ईशेशाऽजामयो देवो नारायणः प्रसीदताम् ।
ऋषिपितृदेवमयो मानवासुरनागधृक् ॥ ६८॥
पतिपत्नीमयो देवो नारायणः प्रसीदताम् ।
नरनारीस्वरूपोऽयं नृपराज्ञीमयः प्रभुः ॥ ६९॥
लोकधामधराधीह्रीश्रीपतिर्मे प्रसीदताम् ।
यत्पादध्यानधौतान्तर्हृदो विन्दन्ति यं प्रभुम् ॥ ७०॥
तदोतप्रोतसद्बुद्ध्या यादृग्रूपः स दृश्यते ।
तथा तं कवयो लोके वर्णयन्ति परात्परम् ॥ ७१॥
ब्रह्मवाण्यां ब्रह्मरूपो लोकवाण्यां रसात्मकः ।
उभवाण्यां मिष्टतिक्तो प्रसीदतां कथेष्टदः ॥ ७२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ५९-अध्यायान्तर्गतं
नारायणप्रोक्तं हरिस्तोत्रं
लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय ५९/५८-७२॥
lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 59/58-72..
Proofread by PSA Easwaran