श्रीनारायणस्तवनाष्टकम्
महातेजःपुञ्जस्फुरदमलसिंहासनवरे
स्थितं सर्वाधीशं नखकिरणविद्योतितसभम् ।
सितच्छत्रं पार्श्वस्फुरदमलसच्चामरयुगं
भृशं धन्यो लब्ध्वा नयनपथि नारायणमहम् ॥ १॥
हसद्वक्त्राम्भोजं चपलनयनालोकितजनं
लसन्मुक्ताहारं विविधकुसुमापीडमुकुटम् ।
प्रपञ्चत्प्रावारं चरणविलसन्नूपुरमिदं
हरे ! रूपं नित्यं मम मनसि सम्यक् स्फुरतु ते ॥ २॥
ढं विश्वासो मे तव चरणपद्माश्रितजनो
भवाम्भोधेः पारं व्रजति सहसा त्वत्करुणया ।
त्वमेवैकः स्वामी सकलजगतामित्यपि हरे
विदित्वा पादौ ते दृढतरमहं ह्याश्रयमिमौ ॥ ३॥
न जाने शास्त्राणां विविधमतसन्निर्णयमहं
पुराणव्रातानामपि च बहुकल्पाश्रितकथाः ।
नवा देवर्षीणां पृथगिह मनोरञ्जनविधि
परं जाने स्वामिन् ! भ्रमणहरणं तेऽत्र शरणम् ॥ ४॥
तपो नोग्रं तप्तं व्रतनियमदानानि च मया
न चेष्टापूर्तं वा श्रवणमननाभ्यासदृढता ।
न चीर्णान्याप्तुं त्वामिह तदपि यस्त्वं दृशि गतो
न जाने तद्धेतुं त्वदतितरकारुण्यत ऋते ॥ ५॥
भृशं पापव्रातैर्मदनमदमानादिभिरपि
प्रभो ! ग्रस्तस्यालं तव चरणपद्मेक्षणमिदम् ।
कथङ्कारं मे स्याद्यदि न पुरुकारुण्यपदवीं
श्रथा नाथ ! त्वं त्वयि हि तदिदं केवलमहो ॥ ६॥
बलं नो मे बुद्धेर्न च सुदृढवैराग्यविलस-
-न्निजात्मज्ञानस्य प्रचुरनियमानामपि हरे ! ।
विमोक्तुं संसारान्निरतिशयमेकं हि बिरुदं
विलोक्य स्वीयं मां भवजलनिधेरुद्धर निजम् ॥ ७॥
न जाने धर्माणामतिगहनकर्तव्यसरणि
न शास्त्रं मन्त्राणां न च विविधतन्त्रागमविधिम् ।
न वा भक्तैः कृत्यं तव चरणपद्मार्चनविधिं
ततो वन्दे दीनस्तव पदयुगं दण्डवदहम् ॥ ८॥
इति श्रीसत्सङ्गिजीवने तृतीयप्रकरणे चतुर्दशे-अध्याये
दीनानाथ भट्टकृतं श्रीनारायणस्तवनाष्टकं सम्पूर्णम् ।