श्रीनारायणस्तोत्रम्

श्रीनारायणस्तोत्रम्

स्वं चिद्रत्नं चिरनं यदि समुदयते नष्टमन्वेष्टुमिच्छा श्रेयःपात्रे तदा स्वं हृदि मिलदमलस्नेहपूरस्य पूर्णे । आसाद्य द्योतमानं भृशमकृशदशासंहृतांहःपतङ्गं दध्यादध्यात्मदीपं दलिततमतमःस्तोममीशस्य धाम ॥ १॥ रुग्णक्लेशाटवीकं रिपुविसरसरःक्षोभवेतण्डशुण्डा- दण्डाभं सक्थिकाण्डं कलयतु मनसा पुण्डरीकेक्षणस्य । बाहुः संवाहयन्त्या जलनिधिदुहितुर्यत्र गाङ्गेयगौरी स्वर्गङ्गाम्भोजिनीव स्फुरति विकसता पाणिपाथोरहेण ॥ २॥ अम्भोजाक्षस्य जम्भाहितमणिरुचिरौ पीवरावूरुरम्भा- स्तम्भौ सन्तापशान्त्यै हृदयभुवि समारोप्य सम्भावनीयौ । आ लब्ध्वा यौ भवाब्धिप्लवघटनपटू पुण्यलावण्यपूरा- प्लावे पारिप्लवात्मा स्पृहयति न जनस्तस्य पाराय दूरात् ॥ ३॥ स्थूलत्वाद्योगयोग्यौपयिकतनुगृहस्थूणसौभाग्ययोग्यं ध्यायेदस्योरुकाण्डं निगमनिभमहाशाखिशाखाप्रकाण्डम् । यस्मिन् व्यायच्छमाना मुनिहृदयभिषग्वर्धमानप्रभावाः प्रायेण प्रौढकामादरिचयविजये सांयुगीना भवन्ति ॥ ४॥ मध्ये लावण्यपूरं घनजघनतटच्छद्मना पद्मनाभ- स्योञ्चैरुद्भासमानं पुलिनममलिनं चिन्त्यतां चक्रचारु । यस्मिन् विश्रम्य सम्यङ्मतिरतिचतुरा पारकाङ् क्षीश्वराणां पारं संसारसिन्धोः करकमलपरिप्राप्तकल्पं विवेद ॥ ५॥ सज्जं सिंहासनं तज्जघनमनु मनः शान्तिसाम्राज्यसुस्थं स्थाप्यं यस्योपरिष्टाल्लसति सिततमस्पष्टरोमालिदण्डम् । श्रीवत्सच्छत्र(धा) रादपि मणिरशनाहारिहीराश्मरश्मि- श्रेणिः प्रेङ्घन्मराली?? विसमरसुषमोड्डामरा चामराली ॥ ६॥ सारं सन्नाभिशोभं द्युमणिगणलसत्तेजसा भ्राजमानं श्रीकान्तस्यान्तरङ्गं जघनमिति मतं चक्रमन्यद्विचिन्त्यम् । धारा सौदर्शनी सा जरठरिपुघटादुःसहा यत्सहाया ग्रीवाग्राव्णि छिदायै भिदुरमदभिदि प्राभवकैटभेये ॥ ७॥ स्फीतं पीताम्बरस्याम्बरमपि मनसासंस्तुवीतास्त्र(स्त) साम्यम् । यत्तेजःपीतभावादितरकनकरुग्वन्तुनः पीतनाम । यत्याभ्यर्णे सुवर्णक्षितिधरशिखरक्षेपदेक्षे समित्यां वेपेते म्लान्युपेते बत पतगपतेः स्थास्नुनी किं पतत्रे ॥ ८॥ जम्बूजाम्बुस्रवन्तीतटकनककनत्पङ्कशङ्कां दधानं सिद्धानां दानवारेर्वसनमनुसरेद्यत्सकाशे चकास्ति । काञ्चीमाणिक्य भौधो जघननिहितयोः प्राङ्मधोः कैटभस्य प्रायस्तादृक्छिरोजाम्बवयुगलगलल्लोहिताम्बुप्रवाहः ॥ ९॥ विस्पष्टं तद्वपुष्यावरणमनुगुणे नीचि नीलाभ्रलीले विक्षेपं चामरीचामरमृदुपवनेनात्मनाप्याददाने । स्वध्यातॄणां नृणां तद्द्वयमपनुदती जीवभावे निदानं विद्युद्विद्योतहृद्ये हृदि विहर हरेरन्तरीयोत्तरीये ॥ १०॥ मध्यं चामुष्य काञ्चीमणिगणकिरणस्पष्टगम्भीरनाभी- शोभं तद्गर्भगर्तोत्थितशितिभुभ(ज)गीभ्रान्तिभृद्रोमलेखम् । कालिन्दीभङ्गभङ्गीप्रवलदलिकुलासन्नराजीवराजी- पांशू (सु)(स्तू)(सोमो)पमत्विड्वसननिवसितं चिन्तनीयं तनीयः ॥ ११॥ उन्मीलल्लोमलेखामृदुलनवलतामूलबद्धालवालं धत्तां सिद्धादिमस्यासुनियमनबिलं भूलपद्मालयस्य । सङ्क्षिप्तानां स्वकुक्षौ (किस)(प्रवि)लयसमये विष्टपानां प्रवेश- द्वारं नाभिं गभीरां भुवनभयभिदश्चिन्तयेच्चेतसोऽन्तः ॥ १२॥ धत्तां चित्तेऽस्य नाभिह्रदमतिहृदयाह्लादनं यत्र पुण्यैः स्नाता लावण्यतोयैर्भजति मुनिसतिः पूततां यन्निगूढम् । स्रष्टुश्वावेशनं सन्मधुपजनमनोरञ्जनायै च गञ्जा- कञ्जं रोमालिमालानुसरति मधुनः सौरभे बद्धबुद्धिः ॥ १३॥ संसारक्षारवारानिधितरणविधौ बद्धरामालिलीला- रोमाली तुष्टियष्टिर्घनवृजिनवनीलाविनी भावनीया । पश्यामः श्यामसूत्रं निहितमिव समं भूमिसीमाविभागं कर्तु भर्तुः शरीरे किल कलहजुषायां कलत्रद्वयेन ॥ १४॥ मीनैः स्वान्तर्निलीनैर्मुनिहृदयमयैः श्लाघ्यगम्भीरिमश्री- र्भाव्या कीर्तिप्रसूनैः सुरभिरभिनवैरब्जनाभस्य नाभिः । रोमालीकालियोऽसौ भजति गतिभिदः सौभरेः शापपाशात् दुःसर्पं सर्पहन्त्रा ह्रदमिव कलयन् यं (यां) कलिन्दात्मजायाः ॥ १५॥ नाभ्याः सारोजनाभ्या विलसदिव बहिर्भूय गर्भाज्जनन्या बालत्वान्नीलरोमावलिनिभनिभृतं तन्नभोऽन्तर्निभाल्यम् । जाने यस्यौचिती सा कविभिरभिमता श्यामता खड्गलेखो- पझं सद्यःप्रसूतार्भकभृशशिशुतोपक्रमं या गता च ॥ १६॥ वक्षोऽधिक्षोभपक्षं नगरिपुनगरीनागरीणां गरीयः सौन्दर्योद्गारहृद्यं स्वहृदि भगवतो भावयेद्भक्तियुक्तः । विद्युल्लोलापि यस्मिन् सलिलघनघने श्यामले प्रेमवश्या पश्याप्तस्थेमसीमाकषदृषदि लसद्धेमलेखेव लक्ष्मीः ॥ १७॥ श्रीवत्साङ्कस्य वक्षः स्मरतु चिरतरं भ्रातरावब्धिपुत्रौ बिभ्रद्यत्नेन रत्ने वरमणिरमणीवर्गयुग्मप्रधाने । लक्ष्मीसम्भोगलक्ष्मस्तनयुगललगत्कुङ्कुमं कौस्तुभोऽस्या लज्जालोपाय यस्मिंस्तिरयति तरुणार्कांशुसङ्काशभासा ॥ १८॥ धौतं लावण्यनीरैः शिशिरमपि रमाश्वाससंज्ञैः समीरैः सान्द्रीभूतेन्द्रनीलैः सपटिमघटितं कुट्टिमं स्निग्धमुग्धम् । ध्यातव्यं माधवोरःसुरतरुसुमनःस्रक्स्फुरत्पुष्पतल्पे यस्मिन्नानन्दनिद्रां भजति मुनिमनो विस्मृताशेषतापम् ॥ १९॥ दुर्धर्षं वैरिवर्गौर्विततमतिदृढं पुण्डरीकाक्षवक्षो वीक्षेत ध्यानदृष्ट्यामरनगरमहाद्वाररक्षाकवाटम् । चित्रं यत्पार्श्वयोस्ता धनमपि घटिता अर्गला दोर्गणाख्या गर्वेणानर्गलानां समिति दितिभुवां स्वर्गमार्गं दिशन्ति ॥ २०॥ उद्यत्प्रद्योतनाभो मणिरुरसि लसन् पद्मनाभस्य भाव्यो यद्दीप्तिव्याप्तिलुप्ता द्युतिरमणिशिरोरत्नखद्योतराशेः । किं वान्यद्दैन्यमागादहह (?) महर्दीपवद्यत्समीपे जैत्रं नेत्रं स्फुटं धूर्जटिनिटिलतटे शोचनीयस्वशोचिः ॥ २१॥ उद्यन्तं भानुमन्तं जननयनमुदे कौस्तुभाह्वां वहन्तं तद्वक्षोदेशभाजं भजतु निजहृदा पद्मरागाधिराजम् । तेजोजालानि बालातपपटलयता दिङ्मुखोद् द्योतहेतो- र्येन क्षीरोदशायी हरिरधिशयितोऽबोध्यसृक्सिन्धुमध्यम ॥ २१॥ श्रीविष्णोः कृष्णकान्त्या मरक्तहरिणीं स्वर्गवर्णां स्वमूर्तिं भर्तुर्वक्षःस्थलस्था क्षितिरिति विदती श्रीर्यदन्तः स्फुरन्तीम् । रुष्टा तुष्टा च तस्यामरुणरूचिरुषा वर्णसाम्यावृतायां च्छव्या नव्यार्कमित्रं माणिरियममला ध्यायतामायतास्थैः ॥ २३॥ अर्केन्द्वक्षस्य वक्षस्यधिगतसुषमं श्यामरोमालिमौलौ श्रीवत्सं वत्सलात्मा स्मरतु धवलिमस्मेररोमाङ्कुराङ्कम् । ये केलीबालवीरुच्छिरसि विकसितं दोहदस्य प्रदाना- द्दर्शं दर्शं प्रसूनस्तबकमिव नवं मोदते पद्मसद्मा ॥ २४॥ कुर्वत्पाथोधिमाथोद्यमसमयपयःफेनसम्पर्कतर्कं तादृक्पीताम्बरोरोऽम्बरचरशरदच्छोदभृच्छेदहृद्यम् । चिन्त्यं श्रीवत्सचिह्नं चिरमुरसि कृतं रक्षणाय प्रजानां जाले श्रीजानिना यद्गुणमतिगुणितं सात्वतैः सत्वसंज्ञम् ॥ २५॥ भावं भावं स्वचेतः कुमुदमुदुदयो वीतसोमावदातो रोमावर्तो मुरारेरुरसिचररमाहासहृद्योऽनुमोऽदः । लावण्याम्भोनिधौ (धाने)वपुषि विपुषितोत्फेनिलावर्तमूर्तौ न प्रत्यावर्तनाय प्रभवति पतितं यत्र नेत्रं मुनीनाम् ॥ २६॥ कस्तूरीकर्दमं श्रीकुचकलशपरीरम्भसंरम्भलग्नं मग्नं सान्द्रेन्द्रनीलद्युतिजितनिजरुर्निङ्झरे निह्नुवानान् । ध्यायेद्दोष्णोऽथ विष्णोर्मधुकरनिकरैर्वर्णगन्धेन दूरा- दाकृष्टैः सन्निकृष्टैः पुनरनधिगतो हन्त यद्वर्णगन्धः ॥ २७॥ सानन्दं मन्दराद्रेः क्षितियुवतिकुचोत्तुङ्गमालिङ्ग्य श‍ृङ्गं नानाधात्वङ्गरागच्छुरणशबलिताः शूरश‍ृङ्गारिवेषम् । रोमाञ्चैनिर्विशेषं व्यदधुरुदधिजोद्वाहकाले पुरा ये तान् भूषाभोगभाजो भुजगशयभुजान् भावनाभिर्भजेति ॥ २८॥ आजानाजानुलम्बान् श्रुतिपथपथिकज्ञानवृद्धावलम्बान् राहुद्विड्बाहुदण्डान् कलयतु चतुरः कृष्णपाषण्डदण्डान् । यानुज्झित्वा विवादं विषयविषरसोदन्यया धावितानां संरोधार्थं गवामाश्रयति यतिजनः सत्रिदण्डैकदण्डः ॥ २९॥ दृष्यद्दुर्दान्तदैत्यर्षभदमनसहं भूरिभारातुराया- स्तद्वद्विश्वम्भराया द्रढिमबलमवष्टम्भयोग्यं दधानान् । ध्यायेद्योगर्धिसिद्धयै त्रियुगभुजयुगान् सांयुगीनारिहन्तुः किं वा कालात्मनोऽस्यावयवयुग (भुज)द्वन्द्वरूपानुरूपान् ॥ ३०॥ कम्बुश्चक्रं च पाथोरुमथ च गदा तेषु चिन्त्यानि कान्ता कम्बुग्रीवानितम्बाननपृथुलतरोरुप्रकाण्डाकृतीनि । जानीमो यान्यजस्त्रं निजकरजलजैस्तत्तदङ्गे प्रियाया- श्चित्तासङ्गं दधानः कलयति कमलाकामुकः कामतातः ॥ ३१॥ निष्कम्पं कैटभस्याप्यतिविकटभुवो वज्रगाढप्रहारान्?? सोदारो भूयसोऽब्दांस्त्रिभुवनभवनस्तम्भसम्भावनार्हान् । पर्याप्तं पारिहार्याङ्गदमयक्लयै रत्नकीलानुविद्धै- र्दार्ढ्याढ्यम्भावुकास्ते दनुजमदभिदो बाहवो भावनीयाः ॥ ३२॥ दिक्पालानां प्रधानं वपुरसुवधे दीक्षितान् क्षत्रियाणां जन्मक्षेत्राणि बाहून वहत हृदि बहूकृत्य भृत्यप्रियस्य । लोकानां पालनायै नियममुपयतां शात्रवत्रासकानां ज्ञातं राज्ञां स्वकीयप्रभवगुणभवो लोकपालानुभावः ॥ ३३॥ चिन्त्यं चक्रं प्रपीतामृतरससहितं लोहितं राहुकर्णात् पीत्वेवाकुण्ठितायुः स्फुरति च न जराजर्जरा यस्य धारा । यन्मध्यं वाहिनीनां न्यविशत शतशः स्पर्धमानारिमूर्ध- च्छद्मन्याच्छिद्य पद्मान्यमरजनमुदे स्राक् स्त्रजःस्रक्ष्यमाणम् ॥ ३४॥ चक्रं शक्रारिशत्रोर्विमृशतु मनसा लालसौल्लासलोलै- र्ज्वालाजिह्वासहस्रै प्रकटितविकटाटोपतर्षप्रकर्षम् । दैत्यासृक्सिन्धुपूरैः किल कलशभुवं जेतुमापीयमानै र्यस्याल्पाप्यार्द्रता नाभ्युदयति हृदये रोषशुष्मोपशुष्के ॥ ३५॥ शङ्खं तं खल्वधीयात् प्रलयघनघटागर्जितौजरिवघोषै- र्यः कृत्वानेककृत्वोऽनुसमरमसुहृद्नर्भिणभ्रूणहत्याम् । प्रायश्चित्तं विधत्ते विधिविहितमरुत्पूरणेन प्रयत्नात् प्राणायामप्रयसी प्रणवगुणनिकासादरः सूक्ष्मनादैः ॥ ३६॥ सौरभ्यारभ्यमाणर्धि भिरधरसुधासाधुमाधुर्यधुर्यैः पीतैः पीताम्बरस्यास्यवनजपवनैर्निर्भरं पूर्णगर्भः । रूक्षासृग्विस्ररक्षोऽसुपवनपिबता(?) पीवरां बर्बरीं वा कामं कौमोदकीं यो हसति स मनसा कम्बुरालम्बनीयः ॥ ३७॥ चक्रं वृक्णारिचक्रं परिचरत धिया चण्डरुङ्मण्डलाभं कम्बुं चाडम्बरेणानिभृतममृतरूग्बिम्बसंवावदूकम् । ये कालिन्द्योधकल्पे हरिरुचिनिचये तस्य चक्षूभवन्तौ स्नेहेन स्वानुबिम्बाविति किमुभयतः पश्यतः पुष्पवन्तौ ॥ ३८॥ ध्यातव्यं दिव्यमब्जं दितिजविजयिनो यत्सदेशस्पृशोऽब्ज- श्रीसर्वस्वच्छिदोऽदोवदनपदजुषो भीतमम्भोजराजात् । नित्यं निद्रादरिद्रं विसृजति मधुनो विप्रषोऽश्रूदबिन्दून् बन्धुस्नेहानुबन्धात्करसरसिरहाश्लिष्यताश्वास्यते च ॥ ३९॥ कञ्जं युञ्जीत चेतस्यजितकरसरोजाधिराजेन जित्वा जीवग्राहं गृहीतं दलितमतितरां बाहुजप्रौढि भाजा । पुष्टाः सर्वस्वपोषं मधुरमधुभृतेरक्षमा बन्धमोक्षे यस्यादूरे रुवत्यो भ्रमरपरिषदः सम्भ्रमेण भ्रमन्ति ॥ ४०॥ पीत्वा मांसोपदंशं युधि रुधिरसुधां पाट्यमानासुरोरः- पट्टव्याघट्टघोषाट्टहसितविकटं क्षीबभावान्नटन्ती । या प्रीतिं प्रेतभर्तुव्यधित धृतवसालेपनेपथ्यरौद्री तस्या ध्यायेदसाध्याहितहृदयगदाभोगदाया गदायाः ॥ ४१॥ भ्राम्यन्ती दिष्टगत्या हतवृषपिशितं प्राश्य मातङ्गकुम्भात् पीत्वा चाजौ मदाम्भस्तदनुशययुता या नखांशुच्छलेषु । स्नान्ती गङ्गाजलेषु व्रतयितुमिव तद्योषितां गोपयोधुक् प्रायश्चित्तं वहन्ती महयत महतीं तां गदां धर्मसेतोः ॥ ४२॥ दोर्वृन्देन्दीवरस्रक्चयचरमरचराम्भोजचातुर्यभाजां ध्यायेच्चातुर्भुजानां विधिनिटिललिपेरुत्किराणां कराणाम् । क्ष्मालक्ष्म्योश्चारूगारूत्मतकनकघटाटोपवत्सु स्तनेषु न्यस्ता ये भद्रकुम्भोपरिपरिविलसत्पल्लवत्वं भजन्ते ॥ ४३॥ दातुं मुक्तीश्चतस्रः स्वरुचिसमुचितं योगिने यौगपद्ये । नोद्यच्छन्तः पुमर्थापणिकविपणयः पाणयोऽजस्य भाब्याः । यैर्मुष्टीमुष्टि रुष्टैरपि युधि मधुना कैटभेनापि सार्धं ताभ्यां स्रष्टुं शिरोभ्यो वितरितुमभयं बद्धमुष्टित्वमौज्झि ॥ ३४॥ या बद्धा यानधोऽधो भृशमनिशमपां रत्नरोचिर्मयीनां पूर्णा स्वर्णालवालावलिरिव कलिता भार्मणी सोर्मिकाली । विद्वत्पूज्यस्य रज्यन्नखमृदुलतलानङ्गुलीभक्तियुक्ता- नारक्तान भक्तवाञ्छाघटनसुरविटप्यङ्कुरान संस्मरेत्तान् ॥ ४५॥ सोत्कर्षं कङ्कणाङ्कैः सरसिजवसतेरश्लथाशेषाग्नै- र्वैकुण्ठाधीशकण्ठः स्फुटदरसुषमानादरो भावनीयः । यत्सौभाग्याभिभूतो निजनिकटचरः पाञ्चजन्योऽपि चिन्ता- जन्यं शून्यान्तरत्वं प्रकटयतितरां पाण्डुभूयं च भूयः ॥ ४६॥ त्रय्याः सञ्चारपद्या इव निजवचसस्तां त्रिरेखां दधाने (नः) सोत्कण्ठं कण्ठदेशे (शो) दशतु कलिमतिं केलिकण्ठीरवस्य । अध्वन्यासिन्धुकन्यादृगधिरुचितया यत्र चित्रीयमाणे चित्रायां प्राप्य यात्रामिव न हि पुनरावर्तते मोदमाना ॥ ४७॥ अर्चिर्बिम्बाध्वनीनावरवचनमयान्यध्वनीनात्मनीना- नीहन्तं ये पवित्रं विरचयति जनो दीर्घदर्श्यर्घपात्रम् । भक्तानां भागधेयाब्धितटिदिव (?) तो मुक्तिमुक्ताप्रसूते- स्तस्यादः कण्ठकम्बोः शुभविभवभुवोऽध्येतु मध्येसमाधि ॥ ४८॥ मोक्षश्रीवैजयन्तीं मुनिनयनमुषः षड्द्विषस्तर्जयन्ती- मन्तःस्वान्तं दधीतोदधिमधिशयितुर्वैजयन्तीं जयन्तीम् । लब्घश्रीणाङ्गसङ्गां मधुपृषतशतस्वेदसन्दोहसान्द्रां यां वाजव्याजधूतव्यजनमलिमधूराजयो वीजयन्ति ॥ ४९॥ माला वैकुण्ठकण्ठग्रहमहबहलामोदमभ्युल्लसन्ती स्मर्या सिन्धोः कुमार्यास्तुलयितुमिव दोःसौकुमार्यं प्रगल्भम् । यां पद्मासद्मपुष्टाः कलितकलकलाः पक्षलक्षेण पाणीन् वारं वारं धुवत्यो मधुपयुवतयः साहसाद्वारयन्ति ॥ ५०॥ भूतग्रामं चतुर्धा विरचयितुमलं पञ्चमूतस्वरूपां पूज्यां दण्डैश्चतुभिः स्थितिचतुरतरैः पञ्चवर्णात्मिकां च । भेत्तुं चित्तं रमाया रतिरमणकृतां बाणसम्पूर्णतूणीं मालां ध्यायेत्तमामुत्तमकुसुममयीमप्रमेयात्मशक्तेः ॥ ५१॥ स्मर्तव्यः सादरं स्वे मुकुटपरिसरे स्थापितः शार्ङ्गिणापि भ्रूचापो रूपदर्पाद्रतिपति(शरधिं) मन्यमानस्तृणाय । संहर्तुं वैरिणः षण्मुनिहृदि गुणितं योगतः प्रस्फुरन्तं यं पश्यन् पुष्पचापोऽपसरति चपलं ह्रीभयन्यस्तशस्त्रः ॥ ५२॥ त्रातुं तापत्रयार्तान् स्वचरणशरणान् छाययोच्छायभाजा कारुण्योदञ्चिकिञ्चिद्वलितललितया संज्ञयाश्वासयन्तीम् । आम्नायस्वर्द्रुमाणां स्थगितशिखमुपस्कुर्वतीं तां त्रिधाम्नो भ्रूनाम्नीं कल्पवल्लीं विपुलबहुफलां पालयेच्चित्तसीम्नि ॥ ५३॥ संयोक्तुं भोगियोगिद्वयमपि युगपद्भक्तिमुक्त्यङ्गनाभ्या- मिष्वभ्यासार्थसज्जीकृतवितनुधनुर्युग्मकार्योद्यतेन । प्रत्याक्रष्टुं यथेष्टं विषयजनजुषं चित्तमत्तेभमिष्टं चेष्टेत क्रूरभेदामसृणघृणियुजा त्रैयुगभ्रूयुगेन ॥ ५४॥ अग्रेरग्र्यारणिं भूषणमणिकिरणोद्दामसौदामिनीनां राज्या नीराज्यमानं नयनपदकृतार्थीकृतार्कामृतांशुम् । आदित्यैर्दुर्भिदस्यान्तरचरतमसो ध्वंसकार्याय चित्ते कुर्याद्देदीप्यमानं द्युतिमुखमखिलज्योतिषां भासकस्य ॥ ५५॥ चन्दन्मन्दस्मितेन स्फुरदधरपुटं किञ्चिदुत्फुल्लगण्डा- भोगं भूयो विकासीक्षणकमलयुगं सान्द्रचन्द्रर्द्धिबाधि । श्वासामोदानुमोदानुसरदलिगणैर्गीतनासागुणोघं स्वालेख्यालेख (सु) भ्रलतमथ वदनं दानवारेर्विभाव्यम् ॥ ५६॥ स्वःसोमो देवतास्मै हरिरपि हृदयं पुम्प्रवृत्तिं सृजन्ती सायातायातसंज्ञाच्छलभृदभिधया श्वासमूर्तिः श्रुतिश्च । तस्मा (द) क्षालिमालास्वनितनुतिपरा सन्निधिस्थार्थवादः कुर्वीतादोमुखस्य स्मरणमखमतो मुक्तिकामाधिकारी ॥ ५७॥ रुद्रेण द्रुह्यमाणः किल कुसुमशरस्तत्प्रतीकारहेतो- रस्मादुत्पत्स्यमानः सुहृदि निहितवान् जैत्रशस्त्राणि यत्र । राजीवे बन्धुजीवे दृगधरयुगले वज्रपुष्पं च नासां पञ्चेषून् भ्रूधनुश्चार्पयतु मतिमिह श्रीमुकुन्दाननेन्दौ ॥ ५८॥ स्वस्वान्तादेव देवो यमजनयदयं वेधसो कल्पशिल्पं भक्तानुक्रोशगर्भान्मुनिजनमनसां लीनता यत्र मु (क्तौ) । (व्यक्तं) यस्यानुबिम्बा हिमकरनिकराः पू (र्णि)मापूर्णबिम्बा- स्तं सेवेतामृतीयन्नमृतकरमृतं चेतसा तन्मुखाख्यम् ॥ ५९॥ विभ्रद्बर्हिर्मुखानां मुखमिति जनकस्यानुरुपं स्वरूपं यद्भूर्ज्वालाह्वजिह्वः कबलयति हविर्जुह्वतां सप्तजिह्वः । वप्रः कव्यप्रियाणामपि लपनतया तृप्तये न्युप्तभोजी न्यस्येदास्ये मनोऽस्मिन्नखिलमखभुजस्तस्य विश्वम्भरस्य ॥ ६०॥ दुग्धस्निग्धस्मिताभामिषविषदकृतोन्मेषपीयूषवर्षैः स्वेषां (?)दधाने धृतमधुरपरिस्पन्दने (दी)नबन्धोः । मन्दश्वासानिले(ङ्गा)त्तरलकिसलयश्रीगरिष्ठेऽधरोष्ठे चिन्तां दन्तांशुसङ्गस्फुटकुसुमरजः सुप्रतिष्ठेऽनुतिष्ठेत् ॥ ६१॥ माधुर्यो द्रेकहृद्यं विपरिणतफलं रूपसम्पल्लतायाः श्रीप्रेष्ठस्योष्ठबिम्बं स्मरतु रुचिमदाहूतबालार्कबिम्बम् । यन्मृष्टत्वस्य तुष्टा निजरमणभुजापञ्जरान्तश्चरन्ती सोत्सेकं सेकभावं कलयति कमला नारिकालीरकन्या (?) ॥ ६२॥ आस्येन्दुस्यन्दमानामृतविततसिराद्वारचातुर्यचौर्या चर्या स्मर्या चिरायारुणरुचिरुचिरा श्रीधरस्याधरश्रीः । योगीन्द्रास्वाद्यमानामृतरसजननी या त्रिलोकीजनन्योः कामं कामं दुहानात्यहह दहति तं बिभ्यतां देहबन्धात् ॥ ६३॥ पङ्क्तिद्वैधानुबन्धिश्रुतियुवतिशिरश्चारुसीमन्तसीमा प्रव्यक्ताव्यक्तमुक्तागुणगुणनिपुणाश्चित्तमारोपणीयाः । वेदान्तार्थस्य दन्ताधवलिमबलिनः सान्द्रसिन्दूरधारा सौन्दर्यं धारयन्त्यारभत यदभितः सौष्ठवं सौष्ठलेखा ॥ ६४॥ राजानं या द्विजानामजमुखजतया विश्रुता (?)स्वजातं भक्त्योपास्ते च किञ्चित्स्फुरदरुणरुचं साधु सन्ध्यायमानम् । साधिष्ठां वर्णनिष्ठां वहति तदधरं या पुरस्कृत्य नित्यं पूज्या राजी द्विजानां प्रणिहितमनसा सा द्विजेन्द्रध्वजस्य ॥ ६५॥ स्वच्छन्दं बन्धुरत्वं दधदधरदलद्वन्धुजीवानुबन्धा- न्मौकुन्दं दन्तवृन्दं मुदितमुनिहृदिन्दीवरं दाम कौन्दम । वारं वारं विभाव्यं भुवि वररसनाध्यासनौजायितायाः पूजायै जायते यत्किल कलुषमुषः शारदादेवतायाः ॥ ६६॥ सम्मृष्टे भूतिजुष्टेश्चलकरनिकरैः कुण्डलोद्यन्मणीनां यच्छेदच्छेऽस्य गण्डस्थलमुकुरतले मानसं सम्मुखीने । चित्रं यत्राभिमुख्ये प्रसरति परमानन्दसन्दोहसान्द्रं योगीन्द्रास्ते स्वरूपं किमपि विरहिताकारमालोकयन्ति ॥ ६७॥ आकीर्णौ कर्णिकाग्रोचितखचितलसत्पद्मरागांशुरागै- र्लाक्षालिप्तन्द्ननीलस्थलकलिकुपितौ तौ कृपालोः कपोलौ । ध्येयौ ताम्बूलपङ्कैः शबलितवपुषौ च(चु)म्बनाडम्बरोत्थै- र्मत्वा यौ लाञ्छनं प्रोञ्छतु मुदितह्रियौ व्याप्रियेते प्रिये ते ॥ ६०॥ स्निग्धश्यामामलेन्द्रोपलविपुलतरादर्शदृश्यं क्षतारि- व्राताटोपं कोलस्थलफलकयुगं धर्मपालस्य भाव्यम् । सद्यः प्रच्छाद्य गात्रे स्थितिचतुरतया यत्र (?) मौ सकामा कामौ भ्रूखड्गलेखे खलु मिलितशिखे युध्यमानौ दधाते ॥ ६९॥ नस्यैरुद्यत्कषायैः कषितुमिव जगत्प्राणरूपैरुपायैः पुंसां दोषत्रिकोद्यद्भवगविपदं योगतोऽन्तर्विशन्तीम् । नासां नासत्यरूपाममृतकरतया विश्रुतामाश्रयेत्तां श्रीसंज्ञा सैन्धवी बह्वमनुत चलिताधिश्रियं यत्प्रसूताम् ॥ ७०॥ ध्यायेद्धोणां घृणाब्धेस्तिलसमतुलया सर्जयाप्यर्जयन्ती- माकृत्यामोदमुञ्चैः सकलसुमनसामुत्तमामोदकामः । यातायातैर्यदीयाः श्वसितसततगा वारिधारालरोलान् रोलम्बा (?)र्थसार्थाकनिशमुपगतास्तादृशास्तोषयन्ति(?) ॥ ७१॥ सर्वेशघ्राणवंशं समभिनिविशतां ब्राह्मधामारुरुक्षो- रुचं निश्रेणिकाग्र्यां यमपि च सुषमा नाम शैलूषयोषा । अध्यारूढा गुणैरुच्छ्रितमतिविततैर्बिभ्रती विभ्रमर्द्धि लोकस्यालोकगृध्नोरपहरति चिरोपार्जितापूर्वलक्ष्मीम् ॥ ७२॥ अभ्यर्णे कर्णयोः किं स्खलितमतिभरान्नुत्तमुत्तंसपद्म- द्वन्द्वं भ्राम्यन्मिलिन्दभ्रमकरतरलश्यामलस्निग्धतारे । दैत्यौघे धर्ममर्माविधि विरुधि क्रुद्धवच्छोणकोणे त्रैलोक्यत्रातृनेत्रे बहिरनवहितस्वान्तमन्तर्विलोक्ये ॥ ७३॥ विष्णोरक्ष्णोरभीक्ष्णं स्मरतु सुमधुरः प्रोच्चलत्प्रेमधारा- व्यात्युक्षीकेलयोऽनुक्षणसुभगतमश्रीकटाक्षच्छटाभिः । याभ्यां नातिस्वदन्ते भवदवविधुरान्मूर्छितात्मीयसेचं सिञ्चद्भ्यां भक्तलोकान् स्फुरदुरुकरुणाशीतवीक्षाभिरद्भिः ॥ ७४॥ वक्त्रेन्दाविन्दिरायाः शिथिलरसमिव ब्रह्मशर्वावकाण्डे कुर्वद्दौर्भाग्यदुःस्थावितरसुरगणप्रेक्षणेऽन्धं भविष्णू । एकौरस्याधिकेष्टान् शुकसनकमुखान् द्रष्टृसम्मर्दनष्टान् अन्वेष्टुं तातचारं चरदभिककुभं चक्रिचक्षुर्विचिन्त्यम् ॥ ७५॥ वृन्दैरिन्दीवराणां जलजकुलयुजां स्वरवपादप्रसादात् कादाचित्कीं श्रयद्भिः श्रियमनिशशुभा दुर्लभा यस्य सा श्रीः । साक्षाल्लक्ष्म्या यदीक्षा समुदयति मुदे ब्रह्मणापीष्यमाणा चेतस्यालोचनीयं नयनयुगमदः पुष्पवल्लोचनस्य ॥ ७६॥ यत्सत्यं सत्यवद्यव्यवसितिविदिताख्यैकसख्यात्स्वकीया- द्यां सर्वाशां सवित्रीं श्रुतिरुदितवती विश्वविश्वासपात्रम् । भक्तेच्छापूर्तिकैर्म (?) कनियमवशा (?) त कर्णप्रसिद्धिः शुश्रूषेत श्रियाढ्यां हृदि मुदितमले तां श्रुतिं श्रीप्रियस्य ॥ ७७॥ अन्तः संयन्तुकामेन्द्रियगणगजतायूथनाथं मदर्थे (र्द्ध-) रुद्दामानं मनोनामकमृषिजनतापेक्षते यावपाशा (?) । याभ्यां बद्धात्मनां न प्रभवति भवतो दुस्त्यजोऽप्यस्तजन्मा भूयोबन्धस्य बद्धोक्षजित इव हरेस्तौ स्मरेच्छ्रोत्रपाशौ ॥ ७८॥ योगाध्वप्रौढतृष्णस्त्रुटितगुणपुटो जुष्टतीर्थोऽमृतर्थीं धर्मद्धर्थै कूपकर्तुर्विशतु दृढपदं कर्णकूपे कृपालोः । यद्भूषाश्मांशुपूरं निजनिकटचरा दर्शिता हावभावं दिव्यर्षीणां दिदृक्षाभरपरितृषिताः पश्य धावन्ति गावः ॥ ७९॥ त्रस्तौ वैधुन्तुदारुन्तुदरदकदनात्स्वाभयं याचमानौ यौ नूनं वेपमानावुडुपतितपनौ कर्णजाहं जिहानौ । प्रीत्या प्रत्युद्गतौ चायतनयनयुगेनात्ममूर्त्यन्तरत्वात् ध्यायेद्रादहस्ते रुचिभररुचिरे कुण्डले गण्डलोके ॥ ८०॥ स्थाप्यः सङ्कल्पकल्पे मणिमकरमुखाकारशिल्पोऽस्य कर्णा- कल्पोऽम्भोयन्त्रकल्पः कलयत सुधियो कल्परत्नांशुवंशः । त्रैलोक्यावासयोग्यामपि विपुलवपुर्वापिकां पूरयित्वा धावल्लावण्यपूरः परिवहति बहिः साध्वनेन ध्वनेति ॥ ८१॥ द्रुह्यन्तौ मह्यमस्य श्रवणमलभवौ भाविनौ दानवौ तौ । निद्रां गन्तुर्युगान्ते द्रुहिणहृदि समुत्त्रासमुत्थास्नुमित्थम् । साक्षात्प्रक्षालयन्त्यावपि मणिकिरणैर्निर्मलं निर्मिमाणे कर्णान्तः कर्णभूषे प्रतिभवभिषजः प्रोतचेतीबुभूषेत् ॥ ८२॥ वक्त्राच्छासङ्गभृङ्गीभवदलककुलाकारकालाक्षराणां बिभ्राणां धोरणीं हृद्भुवि भुवनगुरोर्भावयेद्भालपट्टीम् । अभ्यस्यन्तीव यस्यां पटुमुनिवटवोऽध्येतुमध्यात्मविद्यां (?) श्रद्धावधाना अपरिचिततरीं मातृकां कामपीमाम् ॥ ८३॥ धीशैलूषां विशाले सममसृणतलेय दीपिकाभिः कैरीटाश्मच्छटाभिर्नटयतु निटिलोत्सङ्गरङ्गे त्रिसूर्तेः । यस्य त्रैलोचनं लोचनमनलमयं बाधमानस्य (भासा) त्रासार्थं शर्वशत्रोस्तुलयति तिलको निस्तलो रोचनायाः ॥ ८४॥ कोटीराबद्धनानाविधमणिकिरणैरुल्बणालेख्यलक्ष्मीः श्रीभर्तुर्भालभित्तिः स्वलवणिमसुधास्निग्धमूर्तिर्विभाव्या । प्रत्याहारोपवासादनुदनुजरिपुध्यानपीयूष (यू) षै- स्तन्द्रालुः पारयित्वा श्रयति यतिमतिर्यामुपघ्नां चिराय ॥ ८५॥ सान्द्रैरुद्भासिहासान् सुरतरुकुसुमैरिन्द्रनीलाधिनीला- नन्तः प्राप्तप्रकाशान् रचयतु रुचिरान् श्रीहृषीकेशकेशान् । सार्धं स्पर्धानुबन्धादिव समुदयते व्योमकेशस्य केशै- र्येषामभ्रान्तशुभ्रोडुनिवहतिबिडाकाशनीकाशभावः ॥ ८६॥ हस्तीन्द्रस्यार्ति सिन्धूद्धरणमभिहतताभीतिहस्तस्य दूरा- दार्तत्राणस्य दूरप्रसृमरमहिमा केशहस्तो विचिन्त्यः । यं हस्तीकृत्य भक्त्या भवदवदहनज्वालजालैर्विहस्ताः कुर्वन्ति स्वान्तदूरामपि दुरधिगमां हस्तसान्मोक्षलक्ष्मीम् ॥ ८७॥ कौटिल्यं दुष्टलोके किल सुजनजने मार्दवं वर्षुकाब्दो- त्कर्षक्लेशार्कतप्ते विभजदिव विभोः कैश्यमन्तर्विचिन्त्यम् । किं नाधिस्निग्धतायास्तदुचितमुचितं मोचयद्यस्वबन्धून् भक्तान् संसारबन्धात्स्वयमपि सुचिरं बन्धमङ्गीकरोति ॥ ८८॥ शुभ्रैरभ्रंलिहैरुन्मुखमणिकिरणैर्ब्रह्मरन्ध्रोपरिष्ट- दर्चिर्मार्गं सुदुर्गं निजभजनमृते दर्शयद्भक्तपान्थान् । पश्यन्नश्यनिमेषं मणिमयनयनैविस्मयेनास्य सृष्टिं स्मर्तव्यं प्रत्नपुंसः स्फुटरुचिमुकुटं कूटवद्रत्नसानोः ॥ ८९॥ रत्नौघोद्यत्कराग्रैर्मुखमपि ककुभां पत्रलेखालिखन्तं बघ्नन्तं सान्द्रचन्द्रातपततिमभितो भक्तमुक्त्युत्सवाय । अग्रीयोग्रभावाद्गगनतरुशिरःस्मेरताराप्रसूना- न्युच्चानुच्चेतुकामं स्वमनसि कुरुतां कैटभारेः किरीटम् ॥ ९०॥ रत्नौघोद्यत्कराग्रैर्मुखमपि ककुभां नीलरत्नांशुधारा- कारान्नाराचसारानपि हरिधनुषो हीररोचिःप्ररोहान् । तद्वीराशंसनं संसरणमभि रणे दारूणे वैरिमुख्यैः कामाद्यारख्यैर्मुनीनामुपकरणकरं संस्मरेत्तत्किरीटम् ॥ ९१॥ योगीन्द्राणां द्विषः षडिषधरविषमानिच्छतां रोद्धमद्धा वोत्रौघोत्थैर्मधोनो(??) धनुर्भिरगणितैश्चित्र (?)द्गणैश्च (?) । निर्वाणीभूय भूयः सफलयति मतिं यो भिया भावमूलं नश्यद्दोषां विभूषां महयतु महितं मौलिमाम्नायमौलेः ॥ ९२॥ इति श्रीजीवदासवंशावतंसश्रीविद्याकरपुरोहितमहापात्रकृतं श्रीमन्नारायणप्रत्यङ्गवर्णनाशतकं सम्पूर्णम् । Proofread by Rajesh Thyagarajan
% Text title            : Shri Narayana Stotram 2 03 05
% File name             : nArAyaNastotram.itx
% itxtitle              : nArAyaNastotram 2 (shrIvidyAkarapurohitamahApAtrakRitaM svaM chidratnaM chiranaM)
% engtitle              : nArAyaNastotram 2
% Category              : vishhnu, stotra, shataka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : shrIvidyAkarapurohitamahApAtra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From stotrArNavaH 03-05
% Indexextra            : (Scan)
% Latest update         : August 14, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org