नारायणस्तोत्रम्
नारायणो यो नरभूजलायो नारायणोऽज्ञाननिवर्तनेन ।
नारायणोऽन्तर्यमनेन पुंसां तमादिनारायणदेवमीडे ॥ १॥
पुराणवर्णाः पुरुषोत्तमस्य पुराणमन्त्रः पुरुषः पुराणः ।
दधार योऽसौ परिपूर्णरूपस्तमादिनारायणदेवमीडे ॥ २॥
मन्त्रात्मको मन्त्रगुणैस्सुतो यो यस्सर्वमन्त्रान्प्रददौ मुनिभ्यः ।
मन्त्राधिदेवोऽखिलमन्त्रगम्यतस्मादिनारायणदेवमीडे ॥ ३॥
निश्वासभूता निगमालिरस्य प्रश्वासरूपागमपङ्क्तिरिद्धा ।
समस्तशास्त्राणि च यस्य वाचस्तमादिनारायणदेवमीडे ॥ ४॥
यस्याष्टवर्णं मनुराजमेकं समाश्रितस्संसृतिपारमेति ।
विधेर्विधानं न ह्यत्र किञ्चित् तमादिनारायणदेवमीडे ॥ ५॥
यो वासुदेवः खलु वामदेवो यो देवदेवः प्रथमं ततोऽभूत् ।
पार्श्वद्वयादस्य च वक्षसश्च तमादिनारायणदेवमीडे ॥ ६॥
शेषाय देवाय विशेषभर्त्रे अशेषमन्त्रान्प्रददौ सशेषान् ।
निःशेषतः क्लेशनिवृत्तयेऽसौ तमादिनारायणदेवमीडे ॥ ७॥
गुरुर्गुरूणामृषभो ऋषीणां यों देवदेवः खलु देवतानाम् ।
यश्चेश्वराणां परमेश्वरोऽसौ तमादिनारायणदेवमीडे ॥ ८॥
इति नारायणस्तोत्रं भणितं त्रिपुरारिणा ।
पठनाच्छ्रवणात्सद्यो हृद्यां शुद्धिं प्रयच्छति ॥ ९॥
(११-१९)
इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे एकादशोऽध्याये
नारायणस्तोत्रं सम्पूर्णम् ।
Proofread by Manish Gavkar