प्रचेतसकृता नारायणस्तुतिः
॥ श्रीगणेशाय नमः ॥
प्रचेतस ऊचुः ।
नमस्ते केशवायैव नमस्ते भूतभावन ।
निराकाराय कृष्णाय विष्णवे प्रभविष्णवे ॥ ३॥
आदिमध्यान्तहीनाय वासुदेवाय ते नमः ।
सर्वाज्ञानविनाशाय ज्ञानदात्रे कृपालवे ॥ ४॥
लक्ष्मीपते नमस्तुभ्यं भक्तसंरक्षकाय च ।
भक्तिप्रियाय देवाय शेषशायिन्नमोऽस्तु ते ॥ ५॥
भुक्तिमुक्तिप्रदायैव विकुण्ठपतये नमः ।
नारायणाय शान्ताय सत्त्वयुक्ताय ते नमः ॥ ६॥
वयं सपितरो धन्या यैः प्रदृष्टो जनार्दनः ।
वरं देहि विशेषेण सृष्टिसामर्थ्यदायकम् ॥ ७॥
एवं स्तुतः प्रसन्नात्मा तानुवाच स्वयं हरिः ।
सामर्थ्यमतुलं सृष्टौ भविष्यति च वः सुखम् ॥ ८॥
तपसा सिद्धरूपाश्च भवन्तो नात्र संशयः ।
यद्यदिच्छथ तत्तद्वः सफलं प्रभविष्यति ॥ ९॥
भवत्कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् ।
पठतां शृण्वतां चैव मत्प्रसादकरं परम् ॥ १०॥
इति प्रचेतसकृता नारायणस्तुतिः सम्पूर्णा ॥
- ॥ मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः २७ । २.२७ ३-१०॥
- .. mudgalapurANaM dvitIyaH khaNDaH . adhyAyaH 27 . 2.27 3-10..
Proofread by Yash Khasbage, Preeti Bhandare