नारदकृतं २ श्रीकृष्णस्तोत्रम्

नारदकृतं २ श्रीकृष्णस्तोत्रम्

कृष्ण कृष्णाप्रमेयात्मन् योगेश जगदीश्वर । वासुदेवाखिलावास सात्वतां प्रवर प्रभो ॥ ११॥ त्वमात्मा सर्वभूतानामेको ज्योतिरिवैधसाम् । गूढो गुहाशयः साक्षी महापुरुष ईश्वरः ॥ १२॥ आत्मनाऽऽत्माऽऽश्रयः पूर्वं मायया ससृजे गुणान् । तैरिदं सत्यसङ्कल्पः सृजस्यत्स्यवसीश्वरः ॥ १३॥ स त्वं भूधरभूतानां दैत्यप्रमथरक्षसाम् । अवतीर्णो विनाशाय सेतूनां रक्षणाय च ॥ १४॥ दिष्ट्या ते निहतो दैत्यो लीलयायं हयाकृतिः । यस्य हेषितसन्त्रस्तास्त्यजन्त्यनिमिषा दिवम् ॥ १५॥ चाणूरं मुष्टिकं चैव मल्लानन्यांश्च हस्तिनम् । कंसं च निहतं द्रक्ष्ये परश्वोऽहनि ते विभो ॥ १६॥ तस्यानु शङ्खयवनमुराणां नरकस्य च । पारिजातापहरणमिन्द्रस्य च पराजयम् ॥ १७॥ उद्वाहं वीरकन्यानां वीर्यशुल्कादिलक्षणम् । नृगस्य मोक्षणं पापाद्द्वारकायां जगत्पते ॥ १८॥ स्यमन्तकस्य च मणेरादानं सह भार्यया । मृतपुत्रप्रदानं च ब्राह्मणस्य स्वधामतः ॥ १९॥ पौण्ड्रकस्य वधं पश्चात्काशिपुर्याश्च दीपनम् । दन्तवक्त्रस्य निधनं चैद्यस्य च महाक्रतौ ॥ २०॥ यानि चान्यानि वीर्याणि द्वारकामावसन् भवान् । कर्ता द्रक्ष्याम्यहं तानि गेयानि कविभिर्भुवि ॥ २१॥ अथ ते कालरूपस्य क्षपयिष्णोरमुष्य वै । अक्षौहिणीनां निधनं द्रक्ष्याम्यर्जुनसारथेः ॥ २२॥ विशुद्धविज्ञानघनं स्वसंस्थया समाप्तसर्वार्थममोघवाञ्छितम् । स्वतेजसा नित्यनिवृत्तमाया- गुणप्रवाहं भगवन्तमीमहि ॥ २३॥ त्वामीश्वरं स्वाश्रयमात्ममायया विनिर्मिताशेषविशेषकल्पनम् । क्रीडार्थमद्यात्तमनुष्यविग्रहं नतोऽस्मि धुर्यं यदुवृष्णिसात्वताम् ॥ २४॥ इति श्रीमद्भागवतमहापुराणे दशमस्कन्धे पूर्वार्धे सप्तत्रिंशाध्यायान्तर्गतं नारदकृतं श्रीकृष्णस्तोत्रं समाप्तम् । भागवतपुराण । अध्याय १०/३७/११-२४॥ bhAgavatapurANa . adhyAya 10/37/11-24.. Proofread by PSA Easwaran
% Text title            : Naradakritam 2 Shri Krishna Stotram
% File name             : nAradakRRitaM2shrIkRRiShNastotram.itx
% itxtitle              : shrIkRiShNastotram (nAradakRitaM 2 bhAgavatapurANAntargatam kRiShNa kRiShNAprameyAtman yogesha jagadIshvara)
% engtitle              : nAradakRRitaM 2 shrIkRRiShNastotram
% Category              : vishhnu, vishnu, krishna, bhAgavatapurANa, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : bhAgavatapurANa | adhyAya 10/37/11-24||
% Indexextra            : (Text 1, 2, 3, Scans 1, 2, 3, 4, 5, 6, Hindi)
% Latest update         : October 1, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org