नारदकृतं ४ श्रीकृष्णस्तोत्रम्
अथाहान्तर्हितो विप्रो नारदः खगमो मुनिः ।
प्रीतोऽस्मि विष्णो देवेश कृष्ण कृष्णेति चासकृत् ॥ १॥
नमस्तुभ्यं जगन्नाथ देवदेव जनार्दन ।
नमस्तुभ्यं नमस्तुभ्यं शङ्खचक्रगदाधर ॥ २॥
नमस्ते ज्ञानरूपाय केशवाय च चक्रिणे ।
नम आद्याय बीजाय निर्गुणाय गुणात्मने ॥ ३॥
नमः सहस्रशिरसे त्वां नतोऽस्मि जनार्दन ।
नमामि लोकनाथं त्वां नमस्ते देवरूपिणे ।
नमस्तेऽस्तु हृषीकेश पाहि नः सर्वतो हरे ॥ ४॥
इति हरिवंशान्तर्गतं नारदकृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् ।
हरिवंश । अध्याय ६७.५२॥
harivaMsha . adhyAya 67.52..
Proofread by PSA Easwaran