नारदकृतं ५ श्रीकृष्णस्तोत्रम्
नमस्तुभ्यं जगद्धात्रे विश्वकर्त्रे नमो नमः ।
कृष्णाय बलरूपाय बहुरूपाय ते नमः ॥ १॥
नीलजीमूतवर्णाय गोपवेणुप्रवादिने ।
नमस्ते देवकीमतर्नमस्ते यादवेश्वर ॥ २॥
नमस्ते देवदेवेश नमो मायाविधायिने ।
त्रैलोक्यस्थितिसंहार सृष्टिकर्त्रे नमो नमः ॥ ३॥
विश वृन्दावनां देव विहर त्वं यथासुखम् ।
तत्र दैत्यान्महावीर्याञ् जहि यत्नपरो भव ॥ ४॥
इति हरिवंशान्तर्गतं नारदकृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् ।
हरिवंश । अनुबन्ध - परिशिष्ट । अध्याय १०.३८॥
harivaMsha . anubandha - parishiShTa . adhyAya 10.38..
Proofread by PSA Easwaran