नारदकृतं विष्णुस्तोत्रं
नारद उवाच ।
परं पराणाममृतं पुराणं पारं परं विष्णुमनन्तवीर्यम् ।
नमामि नित्यं पुरुषं पुराणं परायणं पारगतं पराणाम् ॥ ११॥
पुरातनं त्वप्रतिमं पुराणं परापरं पारगमुग्रतेजसम् ।
गम्भीरगम्भीरधियां प्रधानं नतोऽस्मि देवं हरिमीशितारम् ॥ १२॥
परात्परं चापरमं प्रधानं परास्पदं शुद्धपदं विशालम् ।
परात्परेशं पुरुषं पुराणं नारायणं स्तौमि विशुद्धभावः ॥ १३॥
पुरा पुरं शून्यमिदं ससर्ज्ज तदा स्थितत्वात् पुरुषः प्रधानः ।
जने प्रसिद्धः शरणं ममास्तु नारायणो वीतमलः पुराणः ॥ १४॥
पारं परं विष्णुमपाररूपं पुरातनं नीतिमतां प्रधानम् ।
धृतक्षमं शान्तिधरं क्षितीशं शुभं सदा स्तौमि महानुभावम् ॥ १५॥
सहस्रमूर्धानमनन्तपादमनेकबाहुं शशिसूर्यनेत्रम् ।
क्षराक्षरं क्षीरसमुद्रनिद्रं नारायणं स्तौम्यमृतं परेशम् ॥ १६॥
त्रिवेदगम्यं त्रिनवैकमूर्तिं त्रिशुक्लसंस्थं त्रिहुताशभेदम् ।
त्रितत्त्वलक्ष्यं त्रियुगं त्रिनेत्रं नमामि नारायणमप्रमेयम् ॥ १७॥
कृते सितं रक्ततनुं तथा च त्रेतायुगे पूततनुं पुराणम् ।
तथा हरिं द्वापरतः कलौ च कृष्णीकृतात्मानमथो नमामि ॥ १८॥
ससर्ज यो वक्त्रत एव विप्रान् भुजान्तरे क्षत्रमथोरुयुग्मे ।
विशः पदाग्रेषु तथैव शूद्रान् नमामि तं विश्वतनुं पुराणम् ॥ १९॥
परात्परं पारगतं प्रमेयं युधाम्पतिं कार्यत एव कृष्णम् ।
गदासिचर्मण्यभृतोत्थपाणिं नमामि नारायणमप्रमेयम् ॥ २०॥
इति वराहपुराणे तृतीयाध्यायान्तर्गता नारदकृता विष्णुस्तुतिः समाप्ता ।
वराहपुराण । अध्याय ३/११-२०॥
varAhapurANa . adhyAya 3/11-20..
Proofread by PSA Easwaran