नारदप्रोक्तं विष्णुस्तुतिः
नारद उवाच ।
नमः पराय देवाय परात्परतराय च ।
परात्परनिवासाय सगुणायागुणाय च ॥ १५॥
ज्ञानाज्ञानस्वरूपाय धर्माधर्मस्वरूपिणे ।
विद्याऽविद्या स्वरूपाय स्वस्वरूपाय ते नमः ॥ १६॥
यो दैत्यहन्ता नरकन्तकश्च भुजाग्रमात्रेण च धर्मगोप्ता ।
भूभारसन्घात विनोदकामं नमामि देवं रघुवंशदीपम् ॥ १७॥
आविर्भूतश्चतुर्द्धा यः कपिभिः परिवारितः ।
हतवान् राक्षसानीकं रामं दाशरथिं भजे ॥ १८॥
(वालमकीरामायणमाहात्म्ये द्वितीयाध्यायान्तर्गतम् ।)
वाल्मिकीरामायणमाहात्म्य । अध्याय २/१५-१८॥
vAlmikIrAmAyaNamAhAtmya . adhyAya 2/15-18..
Proofread by PSA Easwaran