नीलकर्णकृतं बालकृष्णस्तोत्रम्
प्रणनाम मुहुः कृष्णं बालकृष्णं परेश्वरम् ।
वृकायनो महर्षिश्च स्तोत्रं चकार वै हरेः ॥ २६॥
पूजनं प्रचकाराऽसौ शालवृक्षदलैस्तदा ।
वृष्टिजलैर्मनोभावैः पुपूज परमेश्वरम् ॥ २७॥
येन रक्षा कृताऽऽरम्भे ब्रह्मणः परमेष्ठिनः ।
तेन त्वयाऽत्र मे रक्षा कृता तुभ्यं नमो नमः ॥ २८॥
येन रक्षा कृता पूर्वं सत्यव्रतस्य सागरे ।
तेन त्वयाऽत्र मे रक्षा कृता तुभ्यं नमो नमः ॥ २९॥
येनाब्धिमन्थने रक्षा बहूनां वै कृता पुरा ।
येन देवा रक्षिताश्च दैत्यास्तु विनिपातिताः ॥ ३०॥
येन दुग्धा मेदिनी च रक्षिताः प्राणिनः पुरा ।
येन सागरतलगा रक्षिता वै क्षितिः पुरा ॥ ३१॥
येनाऽङ्गुष्ठजलेनैतद्ब्रह्माण्डं पावनं कृतम् ।
तेन त्वयाऽत्र मे रक्षा विहिता ते नमोऽस्तु च ॥ ३२॥
येन ध्रुवश्च प्रह्लादो रक्षितौ बालकौ पुरा ।
येन बाणासुरश्चात्र घातितः परमात्मना ॥ ३३॥
तलाजा रक्षिता येन मोक्षिता शरणागता ।
दैत्यो दमनको येन मोक्षितः परमात्मना ॥ ३४॥
कङ्कताला मोक्षिताश्च नारका मोक्षितास्तथा ।
सालमालो नाशितश्च येन तेनाऽवितोऽस्मि च ॥ ३५॥
बालाः प्रमोक्षिता येन राज्यमाता प्रमोक्षिता ।
वल्लीदीनो नाशितश्च वराटको विनाशितः ॥ ३६॥
वनस्पत्यादयो येन रक्षोभावाद्विमोचिताः ।
देवायनसमुद्धारश्चाण्डालयोनितः कृतः ॥ ३७॥
कन्थाधरः कृतो येन चिरञ्जीवोऽपि वै ततः ।
रणङ्गमेन पुत्रेण तारितो येन शार्ङ्गिणा ॥ ३८॥
माँजाम्म्बिका रक्षिता च म्लेच्छा विनाशितास्तथा ।
रक्तबीजो नाशितश्च येन तेनाऽवितोऽस्म्यहम् ॥ ३९॥
जलमग्नो नृपतिश्च रक्षितो ह्युदयाभिधः ।
वसुमेधो रक्षितश्च जले येन नमोऽस्तु ते ॥ ४०॥
ज्यामघस्तारितो येन चौरेभ्यः सुधनोऽवितः ।
त्र्यष्टकारुर्मोक्षितश्च येन तुभ्यं नमोऽस्तु ते ॥ ४१॥
हिरण्यकेशशिष्याश्च सजीवा येन वै कृताः ।
वृहद्वर्चास्तारितश्च बलेश्वरोऽपि मोक्षितः ॥ ४२॥
जयध्वजो मोक्षितश्च येन तुभ्यं नमोऽस्तु मे ।
ऐलविला तारिता चाऽधर्मजीवो विनाशितः ॥ ४३॥
महामारी नाशिता च मृता येन तु जीविताः ।
उष्णालयप्रजा वारिमृता येन प्रजीविताः ॥ ४४॥
चक्रवाक्यै जलं येन गिरिशृङ्गे समर्पितम् ।
मार्जारीबालका येन वह्निभ्राष्ट्र्यां प्ररक्षिताः ॥ ४५॥
किम्पुरुषप्रदेशाश्च प्राग्ज्योतिर्भूप्रदेशकाः ।
यज्ञाद्यैः पाविता येन तस्मै तुभ्यं नमो नमः ॥ ४६॥
समीरणोऽवितो येन पवमानोऽपि रक्षितः ।
सन्तारणोऽवितो येन तस्मै तुभ्यं नमो नमः ॥ ४७॥
देवायतनको येन रक्षितः परमात्मना ।
प्रेतोद्धारः कृतो येन राशियानेषु शार्ङ्गिणा ॥ ४८॥
शूरजारो मोक्षितश्च पिशाच्यो मोक्षितास्तथा ।
धनमेदो मोक्षितश्च येन तुभ्यं नमो नमः ॥ ४९॥
वोढुर्विज्ञानवान् येन कृतो गा रक्षितास्तथा ।
बालकृष्णाय ते लक्षवारं मेऽस्तु नमो नमः ॥ ५०॥
मम योगेन भगवन् चात्वालोऽयं समुद्धृतः ।
तस्मै दयालुदेवाय कोटिवारं नमो नमः ॥ ५१॥
निवारयाऽतिवृष्टिं च मेघान् प्रवारय प्रभो ।
समावेशय पूराऽपो रक्ष मग्नान् हि देहिनः ॥ ५२॥
इत्युक्त्वा सर्जपत्राणि न्यक्षिपन्मस्तके हरेः ।
हरिं शङ्खं तदा दध्मौ मेघाः शीघ्रं तु घोषतः ॥ ५३॥
व्यदीर्यन्त जलानां च वर्षणं विलयं गतम् ।
जलानि जलपूराश्च व्यलीयन्त निनादतः ॥ ५४॥
प्राणिनः सुखिनो जाता वृकायनप्रसङ्गतः ।
इति श्रीलक्ष्मीनारायणीयसंहिता । खण्ड २। अध्याय १६४-अध्यायान्तर्गतं
नीलकर्णकृतं बालकृष्णस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड २। अध्याय १६४/२६-५४॥
lakShmInArAyaNIyasaMhitA . khaNDa 2. adhyAya 164/26-54..
Proofread by PSA Easwaran