श्रीनृसिंहाष्टकम् ५
%३८
यं ध्यायसे स क्व तवास्ति देव इत्युक्त ऊचे पितरं सशस्त्रम् ।
प्रह्लाद आस्तेऽखिलगो हरिः स लक्ष्मीनृसिंहोऽवतु मां समन्तात् ॥ १॥
तदा पदाताडयदादिदैत्यः स्तम्भो ततोऽह्नाय घुरूरुशब्दम् ।
चकार यो लोकभयङ्करं स लक्ष्मीनृसिंहोऽवतु मां समन्तात् ॥ २॥
स्तम्भं विनिर्भिद्य विनिर्गतो यो भयङ्कराकार उदस्तमेघः ।
जटानिपातैः स च तुङ्गकर्णो लक्ष्मीनृसिंहोऽवतु मां समन्तात् ॥ ३॥
पञ्चाननास्यो मनुजाकृतिर्यो भयङ्करस्तीक्ष्णनखायुधोऽरिम् ।
धृत्वा निजोर्वोर्विददार सोऽसौ लक्ष्मीनृसिंहोऽवतु मां समन्तात् ॥ ४॥
वरप्रदोक्तेरविरोधतोऽरिं जघान भृत्योक्तमृतं हि कुर्वन् ।
स्रग्वत्तदन्त्रं निदधौ स्वकण्ठे लक्ष्मीनृसिंहोऽवतु मां समन्तात् ॥ ५॥
विचित्रदेहोऽपि विचित्रकर्मा विचित्रशक्तिः स च केसरीह ।
पापं च तापं विनिवार्य दुःखं लक्ष्मीनृसिंहोऽवतु मां समन्तात् ॥ ६॥
प्रह्लादः कृतकृत्योऽभूद्यत्कृपालेशतोऽमराः ।
निष्कण्टकं स्वधामापुः श्रीनृसिंहः स पाति माम् ॥ ७॥
दंष्ट्राकरालवदनो रिपूणां भयकृद्भयम् ।
इष्टदो हरति स्वस्य वासुदेवः स पातु माम् ॥ ८॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीलक्ष्मीनृसिहाष्टकं समाप्तम् ।