श्रीनृसिंहाष्टकम् ६

श्रीनृसिंहाष्टकम् ६

(मत्तमयूरीवृत्तम्) सद्रूपेणादौ विलसन्तं श्रुतिगानम् । पूर्णब्रह्मानन्दमनादि विगतानम् । पश्चात्तं मायागुणयुक्तं सृजनेऽहम् । वन्दे भक्तामरवृक्षं नरसिंहम् ॥ १॥ ध्रु. ॥ प्रेम्णा पद्मालालितपादं भगवन्तम् । ब्रह्मेन्द्राद्यैः सिद्धमुनीन्द्रैर्नतदेहम् । वन्दे ॥ २॥ विद्युद्दस्त्रं पङ्कजनेत्रं स्मितहास्यं विश्वाधारं पूतचरित्रं द्युडुपास्यम् । मेघश्यामं सर्वगरुत्मत्प्रतिवाहं वन्दे भक्तामरवृक्षं नरसिंहम् । वन्दे ॥ ३॥ त्रस्तैर्देवैर्दानवभीत्यानुतपादं योविर्भूत्वा मोदं कृतवान् सुरवृन्दम् । प्रह्लादार्थं संसदि स्तम्भे धृतदेहं वन्दे भक्तामरवृक्षं नरसिंहम् । वन्दे ॥ ४॥ उग्रं रूपं यो धृतवान्वै सुभीष्मं भासाल्लुतं सुर्यजतेजः खलु ग्रेष्मम् । हर्यक्षास्यं दुर्जनचित्तोधृतमोहं वन्दे भक्तामरवृक्षं नरसिंहम् । वन्दे ॥ ५॥ ऊरौ धृत्वा पाणिजभिन्नासुरपालं निष्कास्यान्त्रान् कन्धरदेशे कृतमालम् । रौद्रदृश्यान्याशितमांसादि समूहं वन्दे भक्तामरवृक्षं नरसिंहम् । वन्दे ॥ ६॥ दूरस्थैर्नखैः सुनृतं सुरपालं भक्त्या तुष्टालिङ्गितवान्यो रिपुबालम् । शान्त कान्तं पालितसद्यं पददेहं वन्दे भक्तामरवृक्षं नरसिंहम् । वन्दे ॥ ७॥ मायातीतं सर्वसुपूज्यं कमलेशं स्वान्तारामं ध्यानसुगम्यं परमेशम् । भीमातीरे सङ्गमदेशे कृतगेहं वन्दे भक्तामरवृक्षं नरसिंहम् । वन्दे ॥ ८॥ दत्तात्रेयं पालय दीनं भवभीतं प्रेम्णान्धिप्रान्तेऽर्पितवाणिं यतचित्तम् । सौख्यं दत्वा ते नय मां त्वं निजदेहं वन्दे भक्तामरवृक्षं नरसिंहम् । वन्दे ॥ ९॥ इति श्रीनृसिंहाष्टकं सम्पूर्णम् । Proofread by M K Barman
% Text title            : Shri Nrisimha Ashtakam
% File name             : nRRisiMhAShTakam6.itx
% itxtitle              : nRisiMhAShTakam 6 (sadrUpeNAdau vilasantaM shrutigAnam)
% engtitle              : nRisiMhAShTakam 6
% Category              : vishhnu, dashAvatAra, aShTaka, viShNu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : M K Barman
% Description/comments  : nRRisiMhakosha 2 upAsanA khaNDa
% Indexextra            : (Scans 1, 2)
% Latest update         : August 4, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org