श्रीनृसिंहार्तिः १
(काशीनाथोपाध्यायकृता)
दुग्धाम्बुधिमध्यस्थलदृढयोगासीनम्
सुरवरमुकुटैर्रत्नैः रञ्जित पदनलिनम् ।
वामाङ्कस्थितलक्ष्मीमुखमीलितनयनं
विद्युत्कुण्डलमण्डित विलसच्छुभवदनम् ॥ १॥
जयदेव जयदेव जयकरुणामृतसिन्धो ।
नृहरे पालय सततं जगदानतबन्धो ॥ जय ॥
मायागुणपरिवेष्टनविस्मृतनिजरूपम् ।
शरणं त्वामुपगतमिति करुणागतरूपम् ।
प्रह्लादनिजपुत्रं भगवत्स्मृतिनिरतम् ।
हिरण्यकशिपुं धृत्वा बाधततं सततम् ॥
आविर्भूय स्तम्भे हतवान् निशि यस्तम् ।
निजभक्तं रक्षितवाननुभावितचित्तम् ॥ जय ॥
इत्यद्भुतनिजरूपैःकृतभूभारहरणम् ।
दुर्धरनिजजनसंसृतिजनिधिसन्तरणम् ।
भद्रं त्वामनुसेवे तापत्रयहरणम् ।
काशीदीक्षितसन्नतशरणप्रदचरणम् ॥ ३॥ जय ॥
इति काशीनाथोपाध्यायकृता श्रीनृसिंहार्तिः सम्पूर्णा ।
Proofread by M K Barman