श्रीनृसिंहार्तिः ३
छविकृतरविपरिहासा क्षीराब्धिनिवासा
शारदहिमकरभासा मन्दमधुरहासा ।
लक्ष्मीमूर्तविलासा काञ्चनमयवासा
रक्षितनिजपददासा कृतदनुजत्रासा ॥ १॥
जयदेव जयदेव जयजय नरसिंहा ।
सत्यज्ञानसुखात्मक विदलितकरिरंहा ॥ ध्रुवपद ॥
छत्रीभूतभुजङ्गा चरणच्युतगङ्गा
भूता शतलसदङ्गा त्रिनयननिःसङ्गा ।
कलितसुदर्शन शारङ्गा अभयवरासङ्गा
मुनिहृत्पङ्कजभृङ्गा विठ्ठलभवभङ्गा ॥ २॥
जयदेव जयदेव जयजय नरसिंहा ।
सत्यज्ञानसुखात्मक विदलितकरिरंहा ॥
इति श्रीनृसिंहार्तिः सम्पूर्णा ।
Proofread by M K Barman