नृसिंहावतारः
त्रैविष्टपोरुभयहासनृसिंहरूपम् ।
कृत्वा भ्रमद्भुकुटिदंष्ट्रकरालवक्त्रम् ।
दैत्येन्द्रमाशु गदयाऽभिपतन्तमारा ।
दूरौ निपात्य विददार नखैः स्फुरन्तम् ॥
नृसिंहावतारातील अध्यात्मबोध-
दैत्यो देहाभिमानस्तु हिरण्यकशिपुस्तथा ।
प्रह्लादं त्वेव सद्भावं पीडयति सदैव हि ॥ ८॥
दृष्यवादो विरोधस्तु हरिस्मरणनिन्दकः ।
आसुर्याः सम्पदोऽशस्तु ज्ञात्वा द्वेष्ट्यजमेव हि ॥ ९॥
स्थूलदेहस्तु स्तम्भोऽयं नरत्वं च हरत्यतः ।
नृहरिरात्मबोधस्तु प्रकटश्चाभिमानहृत् ॥ १०॥
शब्दब्रह्म तु वैराग्यं बोधस्यापि च तर्जनम् ।
सद्भावरक्षको बोधो देहबुद्धिं च हन्ति वै ॥ ११॥
न दिने नैव रात्र्यां च न बहिर्न वै गृहे ।
नोर्ध्वमधस्तु सन्धौ चाविषये ह्रद्गतं हृतम् ॥ १२॥
चतुर्थश्चावतारोऽयं जीवबुद्धिविनाशकः ।
दानवमदहन्ता वै कथितश्चात्मबोधकः ॥ १३॥
भागवतटीकाकार श्रीधराचार्यकृत पद्यपङ्क्तयः-
चरणस्मरणं प्रेम्णा तव देव सुदुर्लभम् ।
यथा कथञ्चित्रहरे मम भूयादहर्निशम् ॥ २३॥
क्वाऽहं बुध्यादिसंरुद्धः क्व च भूमन्महस्तव ।
दीनबन्धो दयासिन्धो भक्ति मे नृहरे दिश ॥ २४॥
(२.७.१४)
इति श्रीमद्भागवते द्वितीय स्कन्धे नृसिंहावतारः सम्पूर्णः ।
Proofread by M K Barman