श्रीनृसिंहद्वादशनामस्तोत्रम्

श्रीनृसिंहद्वादशनामस्तोत्रम्

हरिः ॐ । प्रणम्य शिरसा देवं नृसिंहं भक्तवत्सलम् । सच्चिदानंदरूपोऽयं परिपूर्ण जगद्गुरूम् ॥ अस्य श्रीलक्ष्मीनृसिंहद्वादशनामस्तोत्रमंत्रस्य पुरंदर ऋषिः । (वेदव्यासो भगवान् ऋषिः ।) श्रीलक्ष्मीनृसिंहो देवता । अनुष्टुप् छन्दः । क्ष्रौम्बीजम् । ॐ श्री शक्तिः । ॐ श्रीलक्ष्मीनृसिंहप्रीत्यर्थेजपे विनियोगः ॥ अथ न्यासः - ॐ क्ष्रां अंगुष्ठाभ्यां नमः । ॐ क्ष्रीं तर्जनीभ्यां नमः । ॐ क्ष्रूं मध्यमाभ्यां नमः । ॐ क्ष्रैं अनामिकाभ्यां नमः । ॐ क्ष्रौं कनिष्ठिकाभ्यां नमः । ॐ क्ष्रः करतलकरपृष्ठाभ्यां नमः ॥ ॐ क्ष्रां हृदयाय नमः । ॐ क्ष्रीं शिरसे स्वाहा । ॐ क्ष्रूं शिखायै वषट् । ॐ क्ष्रैं कवचाय हुं । ॐ क्ष्रौं नेत्रत्रयाय वौषट् । ॐ क्ष्रः अस्त्राय फट् । अथ ध्यानम् । लक्ष्मीशोभितवामभागममलं सिंहासने सुंदरं सव्ये चक्रधरं च निर्भयकरं वामेन चापं वरम् । सर्वाधीशकृतान्तपत्रममलं श्रीवत्सवक्षःस्थलं वन्दे देवमुनीन्द्रवन्दितपदं लक्ष्मीनृसिंहं विभुम् ॥ प्रथमं तु महाज्वालो द्वितीयं तूग्रकेसरी । तृतीयं वज्रदंष्ट्रश्च चतुर्थं तु विशारदः ॥ १॥ पञ्चमं नारसिंहश्च षष्ठः कश्यपमर्दनः । सप्तमो यातुहन्ता च अष्टमो देववल्लभः ॥ २॥ नव प्रह्लादवरदो दशमोऽनन्तहस्तकः । एकादशो महारुद्रो द्वादशो दारुणस्तथा ॥ ३॥ द्वादशैतानि नामानि नृसिंहस्य महात्मनः । मन्त्रराजेति विख्यातं सर्वपापविनाशनम् ॥ ४॥ क्षयापस्मारकुष्ठादितापज्वरनिवारणम् । राजद्वारे महाघोरे सङ्ग्रामे च जलान्तरे ॥ ५॥ गिरिगह्वार आरण्ये व्याघ्रचोरामयादिषु । रणे च मरणे चैव शमदं परमं शुभम् ॥ ६॥ शतमावर्तयेद्यस्तु मुच्यते व्याधिबन्धनात् । आवर्तयेत्सहस्रं तु लभते वाञ्छितं फलम् ॥ ७॥ इति श्रीब्रह्मपुराणे ब्रह्मनारदसंवादे श्रीलक्ष्मीनृसिंहद्वादशनामस्तोत्रं सम्पूर्णम् । variations वज्रनखस्तृतीयं तु चतुर्थन्तु विदारणः । सप्तमं रिपुहन्ता च द्वादशं करुणानिधिः Encoded by Ganesh Kandu kanduganesh at gmail.com Proofread by Ganesh Kandu, PSA Easwaran
% Text title            : nRRisiMhadvAdashanAmastotram
% File name             : nRRisiMhadvAdashanAmastotram.itx
% itxtitle              : nRRisiMhadvAdashanAmastotram
% engtitle              : nRRisiMhadvAdashanAmastotram
% Category              : vishhnu, dashAvatAra, dvAdasha
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ganesh Kandu kanduganesh at gmail.com
% Proofread by          : Ganesh Kandu, NA, PSA Easwaran
% Description/comments  : shodhagangA thesis about Nrisimha cult Appendix 1
% Indexextra            : (thesis)
% Latest update         : July 13, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org