नृसिंहैकादशी
(अखण्डपादयात्रिणा मेलुकोटे अरैयरदासेन उपासिता)
नृसिंहमूर्ते बहुसिंहमूर्ते प्रह्लादरक्षार्थ सुलक्ष्यमूर्ते ।
हिरण्य दुर्हृत् प्रविदारिमूर्ते मनो मदीयं भव विश्वमूर्ते ॥ १॥
सन्तापशान्तिं कुरु योगमूर्ते योगस्य शक्तिं दिश सर्वमूर्ते ।
सर्वेषु भक्तिं भर भक्तमूर्ते । भक्तिं सदा वर्धय लोकपूर्ते ॥ २॥
पुन्नागचाम्पेयमहासुगन्धे सुदीर्घ ``हङ्गर'' दृढकाष्ठपूते ।
पातालगाहि प्रबिलप्रखाते सन्तोषतो ध्यायसि नागपूते ॥ ३॥
परां हि भक्तिं त्वनुसन्ततां हरे ततोऽपि काष्ठां परमां च भक्तिगाम् ।
त्वमेव मे साधय साधनं त्वं त्वत् पारतन्त्र्ये त्वभिषिक्तकोऽहम् ॥ ४॥
वाणिज्ये रुचिरस्ति सर्वजनतास्वेवं च राज्ये भ्रमः
स्वार्थस्याऽऽर्जनमेव मुख्यमधुना नेतृत्वलोभस्तथा ।
लोभाधीनमिदं हि सर्वपतनं पापं नराणां हरे
लोभाच्च्यावय वर्तयाद्य सुपथे सर्वोदयेऽकण्टके ॥ ५॥
प्रह्लादबालान् विरचय्य साधून् सदासमस्तानमलानभीरुन् ।
त्वदीयविद्योर्जितवैभवांस्तान् त्वदीयगानाऽभिमुखान् कुरु त्वम् ॥ ६॥
बालशिक्षाप्रवीण त्वं बालशिक्षारतो भव ।
सर्वत्र वर्धमानां च नीतिबाहिरतां हर ॥ ७॥
स्वधर्मनिरतान् बालान् स्वधर्मैकरुचींस्तथा ।
स्वधर्मे निधने शक्तान् नृसिंह कुरु तान् भवान् ॥ ८॥
योगाऽऽसनस्थो हि विराजते भवान् जिह्वां प्रसार्यापि च राजसे महन् ।
हिरण्यपक्षं ननु कोपवह्निना मनोविपचाऽऽस्व समत्वयुक्तः ॥ ९॥
राज्येषणात्यागिन एव लोकान् तथैव यूनश्च भवत् प्रकामान् ।
त्वदीय चित्रार्पितचित्तवृत्तीन् हिरण्यविद्याविमुखान् द्रुतं कुरु ॥ १०॥
सर्वेषु धीरक्तिमये प्रचोदय संसारबन्धे प्ररुचिं प्रमोचय ।
त्वदीयसेवार्थमिदं समस्तं श्रीमन् नृसिंहाऽचिरात् कुरु त्वम् ॥ ११॥
नृसिंहैकादशीमेनां यः पठेत् भक्तिभाग्यवान् ।
सर्वसन्तापमुक्तोऽसौ मनः प्रह्लादमृच्छति ॥ १२॥
इति नृसिंहैकादशी सम्पूर्णा ।
Proofread by M K Barman