नृसिंहजन्मकालार्घ्यम्
नृसिंहजन्मकाळानन्तर देण्याचे अर्घ्य ।
हिरण्यकश्यपोत्रे प्रह्लादवरदाय पञ्चास्य उदकदेवाय
श्रीनृसिंहाय इदमर्घ्यं दत्तं न मम ॥ १॥
कोटिसूर्यप्रतीकाशनखरेखाब्जधराय च ।
पञ्चास्य उदकदेवाय श्रीनृसिंहाय इदमर्घ्यं दत्तं न मम ॥ २॥
वैशाखे शुक्लपक्षे चतुर्दश्यामुपस्थितः ।
सायङ्काले मन्दवारे स्वातियुक्ते स्वयं हरिः ॥
श्रीलक्ष्मीनृसिंहदेवताभ्यो नमः ।
तृतीयं अर्घ्यं समर्पयामि ॥ ३॥
पूर्वोक्तकाले पूर्वोक्तदेशे मया उपवासे गां अर्घ्यप्रदानेन
भगवान् श्रीलक्ष्मीनृसिंहः प्रीयताम् ॥
नृसिंहाच्युत देवेश लक्ष्मीकान्त जगत्पते ।
अनेनार्घ्यप्रदानेन सफलाः स्युः मनोरथाः ॥
इति विशेषार्घ्यं दद्यात् ।
Proofread by M K Barman