श्रीनृसिंहकरुणारसस्तोत्रम् २
श्रीनृसिंहाय नमः ।
याचेऽहं करुणासिन्धो यावज्जीवमिदं तव ।
अदैन्यं देहदार्द्धं च त्वत्पादाम्बुजसद्गतिम् ॥ १॥
अनाद्यनन्तकालेषु भृत्योऽहं त्वं हि मे प्रभुः ।
त्वं तुष्टोवाथ रुष्टो वा त्वां विना मे गतिर्नहि ॥ २॥
तुष्टोऽसि त्वं दयासिन्धो किमन्यैर्मम रक्षणे ।
रुष्टोऽसि त्वं दयासिन्धो किमन्यैर्मम रक्षणे ॥ ३॥
दोषाणां च सहिष्णुत्वे त्वत्समो नास्ति भूतले ।
मत्समो नहि देवेश कृतघ्नो वञ्चकोऽपि वा ॥ ४॥
प्रसिद्धशुक्लदासोऽहं शश्वत्तव जगत्पते ।
किं भयं किमु मे लक्ष्यं सर्वेष्वपि धुरन्धर ॥ ५॥
ईशस्य पूर्णकामस्य किमसाध्यं वदाच्युत ।
ममेष्टं च कियन्मात्रं किमेतावद्विलम्बनम् ॥ ६॥
जगत्स्वामी कृपापूर्णः सम्भवेन्निर्दयापरः ।
का तदा गतिरस्माकं गरदायां स्वमातरि ॥ ७॥
त्वमेवैको जगत्राता दाता ज्ञाता दयान्वितः ।
त्वां विना कः पुमान्कर्ता ह्यस्माकं तु मनोरथम् ॥ ८॥
उदारगुणशीलस्य साम्यं सर्वत्र वै तव ।
कस्मालक्ष्मीपतेः श्रीमन् मयि लोभः किमीदृशः ॥ ९॥
आर्तबन्धुरिति ज्ञात्वा त्वामहं शरणं गतः ।
रक्ष मां अथवा सम्यक् त्वं यशो मुञ्च शाश्वतम् ॥ १०॥
दीनबन्धो दयासिन्धो सुहृद्वन्धो जगत्पते ।
संसारार्णवमग्नं मामिन्दिरेश समुद्धर ॥ ११॥
श्रीनृसिंह दयामूर्ते मय्यार्ते निर्दयाकृता ।
को धर्मः किमिदं भाग्यं किं यशो लोकविश्रुतम् ॥ १२॥
सुकृतीनां मदीयत्वं करोषि त्वं किमद्भुतम् ।
तत्कृतं चेन्मयि हरे तदैव विपुलं यशः ॥ १३॥
निर्गुणेष्वपि सर्वेषु दयां कुर्वन्ति साधवः ।
न हि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेश्मनि ॥ १४॥
प्रसीद मे श्रियः कान्त सुप्रसीद दयानिधे ।
पुनः पुनः प्रसीद त्वं प्रसीदं वरदोभव ॥ १५॥
इति श्री पञ्चरात्रागमोक्तकरुणारसस्तोत्रं सम्पूर्णम् ।
Proofread by M K Barman