श्रीनृसिंहकरुणारसस्तोत्रम् २

श्रीनृसिंहकरुणारसस्तोत्रम् २

श्रीनृसिंहाय नमः । याचेऽहं करुणासिन्धो यावज्जीवमिदं तव । अदैन्यं देहदार्द्धं च त्वत्पादाम्बुजसद्गतिम् ॥ १॥ अनाद्यनन्तकालेषु भृत्योऽहं त्वं हि मे प्रभुः । त्वं तुष्टोवाथ रुष्टो वा त्वां विना मे गतिर्नहि ॥ २॥ तुष्टोऽसि त्वं दयासिन्धो किमन्यैर्मम रक्षणे । रुष्टोऽसि त्वं दयासिन्धो किमन्यैर्मम रक्षणे ॥ ३॥ दोषाणां च सहिष्णुत्वे त्वत्समो नास्ति भूतले । मत्समो नहि देवेश कृतघ्नो वञ्चकोऽपि वा ॥ ४॥ प्रसिद्धशुक्लदासोऽहं शश्वत्तव जगत्पते । किं भयं किमु मे लक्ष्यं सर्वेष्वपि धुरन्धर ॥ ५॥ ईशस्य पूर्णकामस्य किमसाध्यं वदाच्युत । ममेष्टं च कियन्मात्रं किमेतावद्विलम्बनम् ॥ ६॥ जगत्स्वामी कृपापूर्णः सम्भवेन्निर्दयापरः । का तदा गतिरस्माकं गरदायां स्वमातरि ॥ ७॥ त्वमेवैको जगत्राता दाता ज्ञाता दयान्वितः । त्वां विना कः पुमान्कर्ता ह्यस्माकं तु मनोरथम् ॥ ८॥ उदारगुणशीलस्य साम्यं सर्वत्र वै तव । कस्मालक्ष्मीपतेः श्रीमन् मयि लोभः किमीदृशः ॥ ९॥ आर्तबन्धुरिति ज्ञात्वा त्वामहं शरणं गतः । रक्ष मां अथवा सम्यक् त्वं यशो मुञ्च शाश्वतम् ॥ १०॥ दीनबन्धो दयासिन्धो सुहृद्वन्धो जगत्पते । संसारार्णवमग्नं मामिन्दिरेश समुद्धर ॥ ११॥ श्रीनृसिंह दयामूर्ते मय्यार्ते निर्दयाकृता । को धर्मः किमिदं भाग्यं किं यशो लोकविश्रुतम् ॥ १२॥ सुकृतीनां मदीयत्वं करोषि त्वं किमद्भुतम् । तत्कृतं चेन्मयि हरे तदैव विपुलं यशः ॥ १३॥ निर्गुणेष्वपि सर्वेषु दयां कुर्वन्ति साधवः । न हि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेश्मनि ॥ १४॥ प्रसीद मे श्रियः कान्त सुप्रसीद दयानिधे । पुनः पुनः प्रसीद त्वं प्रसीदं वरदोभव ॥ १५॥ इति श्री पञ्चरात्रागमोक्तकरुणारसस्तोत्रं सम्पूर्णम् । Proofread by M K Barman
% Text title            : Shri Nrisimhakarunarasa Stotram
% File name             : nRRisiMhakaruNArasastotram2.itx
% itxtitle              : nRisiMhakaruNArasastotram 2 (pancharAtrAgamokta yAche.ahaM karuNAsindho yAvajjIvamidaM tava)
% engtitle              : nRisiMhakaruNArasastotram 2
% Category              : vishhnu, dashAvatAra, stotra, viShNu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : M K Barman
% Description/comments  : nRRisiMhakosha 2 upAsanA khaNDa. pancharAtrAgama
% Indexextra            : (Scans 1, 2)
% Latest update         : August 4, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org