श्रीनृसिंहमङ्गलनवरत्नमालिकाख्यम्
(कीर्तिशेष साङ्ख्यतीर्थ श्री. जग्गू. वेङ्कटार्यरचितम्)
ॐ मङ्गलं स्तम्भडिम्भाय मङ्गलं मृत्युमृत्यवे ।
मङ्गलं रौद्ररूपाय नरसिंहाय मङ्गलम् ॥ १॥
हिरण्यकशिपुं हत्वा दैत्येन्द्रं देवकण्टकम् ।
जगद्रक्षणधुर्याय जगद्बीजाय मङ्गलम् ॥ २॥
प्रह्लादस्तुतिसन्तुष्टप्रसन्ननिजमूर्तये ।
वरदाऽभयहस्ताय वरदाय च मङ्गलम् ॥ ३॥
खराग्रैर्वज्रसंस्पर्शैर्नखरैः शत्रुदारिणे ।
तीक्ष्णदंष्ट्राय तत्त्वायर्ताक्ष्य वाहाय मङ्गलम् ॥ ४॥
नरकण्ठीरवाऽऽकार व्यक्तात्युग्रविभूतये ।
मृगेन्द्राय नरेन्द्राय दैवतेन्द्राय मङ्गलम् ॥ ५॥
किरीटहारकेयूरकुण्डलालङ्कताय च ।
कोटिसूर्यप्रकाशाय देवसिंहाय मङ्गलम् ॥ ६॥
त्रियुगाय त्रिपृष्ठाय त्रिगुणाय त्रिमूर्तये ।
नरकेसरिरूपाय लक्ष्मीलोलाय मङ्गलम् ॥ ७॥
मत्स्यकच्छपवाराहरामवामनमूर्तये ।
रामकृष्णात्मने बौद्धकल्किसिंहाय मङ्गलम् ॥ ८॥
सर्वबीजाय सत्याय सर्वाधिष्ठानमूर्तये ।
सर्वेश्वराय सर्वस्मै सत्यसिंहाय मङ्गलम् ॥ ९॥
मङ्गलाऽऽशासनपरैर्मदाऽऽचार्य पुरोगमैः ।
सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम् ॥ १०॥
इति जग्गू. वेङ्कटार्यरचितं श्रीनृसिंहमङ्गलनवरत्नमालिकाख्यं सम्पूर्णम् ।
Proofread by M K Barman