श्रीनृसिंहमन्त्रराजात्मकम्
श्री गणेशाय नमः । श्री लक्ष्मीनृसिंहाय नमः । ब्रह्मोवाच । अनेक मन्त्र कोटीशः नृसिंहनाम उच्यते । अन्यो विधि न रक्षायै विषरोग निवारणे ॥। १॥
ॐ अस्य श्री लक्ष्मीनृसिंहमन्त्रकवचस्य ।
ब्रह्मा ऋषिः अनुष्टुभ् छन्दः ऐं कीलकम् ।
श्रीनृसिंहोदेवता । मम सर्वरोगानां सर्व देवानां
चौरपन्नगव्याघ्रवृश्चिकभूतप्रेतपिशाच शाकिनीडीकिनी
यन्त्रमन्त्रानेकनिवारणार्थे नृसिंहराजप्रीत्यर्थे जपे विनियोगः ॥
अथ करन्यासः ।
ॐ क्ष्रों अङ्गुष्ठाभ्यां नमः ।
ॐ प्रौं तर्जनीभ्यां नमः ।
ॐ ह्रौं मध्यमाभ्यां नमः ।
ॐ ह्रैं अनामिकाभ्यां नमः ।
ॐ वौं कनिष्ठिकाभ्यां नमः ।
ॐ ज्यैं करतलकरपृष्ठाभ्यां नमः ॥
एवं हृदयादि न्यासः ।
अथ ध्यानम् ।
सत्यज्ञानसुखस्वरूपममलक्षीराब्धिमध्यस्थितं
योगारूढ मतिप्रसन्नवदनं भूषासहस्रोज्वलम् ।
त्र्यक्षञ्चक्रपिनाकसाभयवरान् बिभ्राणमेकच्छविं
छत्रीभूतफणीन्द्रमिन्दुधवलं लक्ष्मीनृसिंहं भजे ॥ १॥
ॐ क्ष्रौं प्रौं ह्लौं रौं ब्रौं ज्रौं नमो नृसिंहाय सर्व दुष्टविनाशानाय सर्वजनमोहनाय सर्वराज्यं वश्यं कुरु कुरु स्वाहा ॥
ॐ नमो नृसिंहसिंहाय सिंहराजाय नरकेशाय नमः ।
ॐ कालाय दंष्ट्राकरालवदनाय उग्राय उग्रवीराय उग्रविकटाय वज्राय वज्रदेहिने भद्राय भद्रकारिणे ज्रीं ह्रीं नृसिंहाय नमः ।
ॐ नृसिंहाय कपिलजटाय अमोदवाचा सत्यं व्रत्यं महोग्र प्रचण्डरूपाय सर्वज्ञ रोगानाबन्ध बन्ध सर्वोग्रहानाबन्ध सर्वदेवदोषानाबन्ध बन्ध सर्वचोराणाबन्ध बन्ध सर्व व्याघ्रानाबन्ध बन्ध बन्ध सर्वपन्नगानाबन्ध ॥
बन्ध सर्वरृश्चिकानाबन्ध सर्व भूतप्रेतपिशाच- शाकिनिडाकिनि यन्त्र मन्त्र बन्ध बन्ध किलय किलय मर्दय मर्दय चूर्णय चूर्णय ॐ ऐं ऐं एतां मद्विरोधतां सर्वतो हर हर दह दह मथ मथ पच पच चूर्णय चूर्णय चक्रेण गदया वज्रेण भस्मी कुरु कुरु स्वाहा ॥
ॐ ज्रीं ह्रीं नृसिंहाय नमः ।
इति श्री नृसिंहपुराणे ब्रह्मासावित्री संवादे नृसिंहमन्त्रराजात्मकं सम्पूर्णमस्तु ।
श्री लक्ष्मी नृसिंहार्पणमस्तु ।
Proofread by Manoj Kumar Barman