श्रीनृसिंहपञ्चामृतम्
(श्रीशेषधर्मे अध्याय ४७)
युधिष्ठिरः-
राजाज्ञां शिरसि कृत्वा रामो धर्मभृतां वरः ।
कं देशं समनुप्राप्तः पुण्यं परमपावनम् ॥ १॥
तन्मे कथय तत्वेन गङ्गासुत नमोऽस्तु ते ।
तत्कीर्तिश्रवणात्सद्यः नरः पापैः प्रमुच्यते ॥ २॥
भीष्मः-
श्रुणु पार्थ प्रवक्ष्यामि श्रोतॄणामघनाशनम् ।
रामस्य चरितं पुण्यं सर्वमङ्गलदायकम् ॥ ३॥
सीतामन्वेष्टकामोऽसौ रामो रघुकुलोत्तमः ।
यं पुण्यदेशं सम्प्राप्तस्तं ब्रवीमि हि तेऽधुना ॥ ४॥
अहोबिलं वेङ्कटाद्रिं श्रीशैलमचलेश्वरम् ।
काञ्ची च कामदां राजंश्चचार रघुसत्तमः ॥ ५॥
तत्र तत्र तु राजेन्द्र दानं ब्राह्मणतर्पणम् ।
गोभूतिलहिरण्यादि कन्यादानशतानि च ॥ ६॥
दत्वा तद्देशजान् विप्रान् स्थापयामास सात्त्विकान् ।
अहोबिलं नारसिंहं गत्वा रामः प्रतापवान् ।
नमस्कृत्वा श्रीनृसिंहमस्तौषीत् कमलापतिम् ॥ ७॥
इति श्रीरामचन्द्रविरचितं श्रीनृसिंहपञ्चामृतं सम्पूर्णम् ।
Proofread by M K Barman