नृसिंहपञ्चकम्
(नृसिंहस्तुतीपरसुभाषितानि नित्यपाठ)
सुरासुरशिरोरत्नकान्तिविच्छुरिताङ्घ्रये
नमस्त्रिभुवनेशाय हरये सिंहरूपिणे ॥ १॥
शत्रौः प्राणालिः पञ्च वयं दश जयोऽत्रकः
इति कोपा दिवा ताम्राः पान्तु वो नृहरेर्नखाः ॥ २॥
वपुर्दलन सम्भ्रमात्स्वनखरं प्रविष्टे रिपौ
कृपाय इति विस्मयात्प्रहितलोचनः सर्वतः ।
वृथेति करताडनान्निपतितं पुरो दानवं
निरीक्ष्य भुवि रेणुवज्जयति जातहासो हरिः ॥ ३॥
सोमार्धायितनिष्पिधानदशमः सन्ध्यायितान्तर्मुखो
बालर्कायितलोचनः सुरधनुर्लेखायितभ्रूलतः ।
अन्तर्नादनिरोधपीवरगलत्त्वक्कूप निर्यत्तडित्
तारस्फारसटावरुद्धगगनः पायान्नृसिंहः स वः ॥ ४॥
आदित्याः किं दर्शयन्ते प्रलयभयकृतः स्वीकृताकाशदेशाः
किं वोल्कामण्डलानि त्रिभुवनदहनायोद्यतानीति भीतैः ।
पायासु नरसिंहं वपुरमरगणैर्बिभ्रतः शार्ङ्गगपाणे-
र्हष्टाहप्तासुरोरस्थलदरणगलद्रवतरवतरनखा वः ॥ ५॥
इति नृसिंहपञ्चकं सम्पूर्णम् ।
Proofread by M K Barman