श्रीनृसिंहपञ्जरमन्त्रः

श्रीनृसिंहपञ्जरमन्त्रः

श्रीगणेशाय नमः । श्रीमद्दिव्यलक्ष्मीनृसिंहाय नमः । अथ नृसिंहपञ्जरप्रारम्भः । ब्रह्मोवाच- अनेकमन्त्रकोटीशं नृसिंहध्यानमुच्चरेत् । अन्योऽपि विविधां रक्षां विषरोगादिनिवारणम् ॥ १॥ सर्वरक्षाकरं नृणां सर्वोपद्रवनाशनम् । सर्व शान्तिकरं गेहे पञ्जरं वज्रसम्मितम् ॥ २॥ ॐ अस्य श्रीनृसिंहपञ्जरस्तोत्रमन्त्रस्य । ब्रह्माऋषिः । अनुष्टुप्छन्दः । श्रीलक्ष्मीनृसिंहो देवता । ॐ क्ष्रौं बीजम् । रौं शक्तिः । ऐं कीलकम् । मम सर्वदेवानां चोरपन्नगव्याघ्रवृश्चिकभूतप्रेतपिशाच- शाकिनीडाकिनीयन्त्रमन्त्रानेक निवारणार्थे वज्रपञ्जररक्षाबन्धने विनियोगः ॥ अथ न्यासः । ॐ क्ष्रौं अङ्गुष्ठाभ्यां नमः । हृदयाय नमः । ॐ प्रौं तर्जनीभ्यां नमः । शिरसे स्वाहा । ॐ रौं मध्यमाभ्यां नमः । शिखायै वषट् । ॐ व्रौं अनामिकाभ्यां नमः । कवचाय हुम् । ॐ ज्रौं कनिष्ठिकाभ्यां नमः । नेत्रत्रयाय वौषट् । ॐ ह्रौं करतलकरपृष्ठाभ्यां नमः । अस्त्राय फट् । ॐ ह्रीं सहस्रार हुं फट् इति सुदर्शनेन दिग्बन्धः । अथ ध्यानम् । ध्यायेन्नृसिंहमुरुवृत्तरवित्रिनेत्रं जानुप्रसक्तकरयुग्ममथापराभ्याम् । चक्रं दरं च दधतं प्रिययासमेतं तिग्मांशुकोट्यधिकतेजसमर्थ्यशुक्तिम् ॥ १॥ इति ध्यात्वापि देवेशं शुचिर्भूत्वा समाहितः । देवागारेच वृन्दायां पञ्जरं प्रजपेत्सुधीः ॥ २॥ ॐ उग्रं हुं फट् मूलाधारे रक्ष रक्ष स्वाहा । ॐ वीरं हुं फट् गुह्यस्थाने रक्ष रक्ष स्वाहा । ॐ महाविष्णुं हुं फट् नाभ्यां रक्ष रक्ष स्वाहा । ॐ ज्वलन्तं हुं फट् हृदये रक्ष रक्ष स्वाहा । ॐ सर्वतोमुखं हुं फट् कण्ठं रक्ष रक्ष स्वाहा । ॐ नृसिंहं हुं फट् भ्रुवोर्मध्ये रक्ष रक्ष स्वाहा । ॐ भीषणं हुं फट् नेत्रयोः रक्ष रक्ष स्वाहा । ॐ भद्रं हुं फट् ललाटे रक्ष रक्ष स्वाहा । ॐ मृत्युं हुं फट् ब्रह्मरन्ध्रे रक्ष रक्ष स्वाहा । ॐ नमामि हुं फट् शिरसि रक्ष रक्ष स्वाहा । ॐ अहं हुं फट् शिखायां रक्ष रक्ष स्वाहा । ॐ क्ष्रौं उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् । नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् । हुं फट् सर्वाङ्गे रक्ष रक्ष स्वाहा । सर्वव्यापकत्रयं कुर्यात् । अथ नवनारसिंहमन्त्रेण दिशारक्षणमन्त्रः । ॐ क्ष्रौं प्रौं रौं व्रौं ज्रौं ह्रौं नमः ॐ लां हुं फट् पूर्वदिशं स्तम्भनारसिंहाय रक्ष रक्ष स्वाहा ॥ १॥ ॐ नमो नारसिंहाय सर्वदुष्टविनाशनाय सर्वजनमोहनाय सर्वराज्यवश्यं कुरु कुरु हुं फट् आग्नेयीं दिशं दिव्यनृसिंहाय रक्ष रक्ष स्वाहा ॥ २॥ ॐ नमो सिंहाय सिंहराजाय नरकेशाय नमः । ॐ हुं फट् वीरनृसिंहाय याम्यां दिशं रक्ष रक्ष स्वाहा ॥ ३॥ ॐ क्रौं ॐ ॐ ज्वालादंष्ट्राय करालवदनाय ॐ उग्राय उग्रवीर्याय विकटाय वज्रदेहाय रुद्राय रुद्रघोराय भद्राय भद्रकारिणे नमः हुं फट् कालनृसिंहाय नैऋतिं दिशं रक्ष रक्ष स्वाहा ॥ ४॥ ॐ ज्रीं ह्रीं नमः स्वाहा हुं फट् विक्रमनृसिंहाय वारूणीं दिशं रक्ष रक्ष स्वाहा । ॐ नमो नृसिंहाय कपिलजटाय अमोघवाचाय सत्यं सत्यं महोग्रचण्डरूपाय हुं फट् प्रचण्डवायुवेगनृसिंहाय वायवीं दिशं रक्ष रक्ष स्वाहा । ॐ ह्रीं ह्रीं ह्रीं ॐ ह्रूं ह्रूं ह्रूं क्ष्रौं क्ष्रीं क्ष्रूं क्ष्रौं क्ष्रौं क्ष्रः क्ष्रूं क्ष्रूं हुं फट् कौबेरीं दिशं मायानृसिंहाय रक्ष रक्ष स्वाहा । ॐ ॐ ॐ ह्रीं ह्रीं ह्रीं ह्रूं ह्रूं ह्रूं छ्रं छ्रं छ्रं छ्रं छ्रं हुं फट् वीरोग्रनृसिंहाय ईशानीं दिशं रक्ष रक्ष स्वाहा । ॐ रुंक्षुं ॐ रुंक्षुं रुंक्षुं रुंक्षुं ॐ रुं रुं हुं फट् केदाराकाशकरालनृसिंहाय आकाशदिशं रक्ष रक्ष स्वाहा । ॐ क्ष्रौं श्रीं ह्रीं हुं फट् लक्ष्मीनृसिंहाय पातालदिशं रक्ष रक्ष स्वाहा । ॐ ज्रां ज्रां ज्रां ह्रां ह्रां ह्रां हुं फट् महोग्रनारसिंहाय सर्वदिशं रक्ष रक्ष स्वाहा । ॐ हुं प्लुं फट् सर्वाङ्गं मम रक्ष रक्ष स्वाहा । अथ मन्त्रः । ॐ सर्वरोगाणां बन्ध बन्ध सर्वग्रहाणां बन्ध बन्ध सर्वदोषाणां बन्ध बन्ध सर्वचोराणां बन्ध बन्ध सर्वपन्नगानां बन्ध बन्ध सर्वव्याघ्राणां बन्ध बन्ध सर्व वृश्चिकानां बन्ध बन्ध सर्वभूतप्रेतपिशाचकानां बन्ध बन्ध शाकिनी डाकिनी यन्त्र मन्त्र बङ्घ बन्ध कीलय कीलय मर्दय मर्दय चूर्णय चूर्णय जय जय मम विरोधिनः हन हन मथ मथ पच पच चूर्णय चूर्णय चक्रेण गदया वज्रेण भस्मीकुरु भस्मीकुरु । ॐ ज्रीं ज्रीं न्रीं न्रीं ह्रीं ह्रीं क्ष्रीं क्ष्रीं नृसिंहाय नमः । हुं फट् रक्ष रक्ष स्वाहा । ॐ महोग्रनारसिंहाय सर्वदिशं रक्ष रक्ष स्वाहा । ॐ क्ष्रौं नृसिंहाय विद्महे वज्रनखाय धीमही तन्नः सिंहः प्रचोदयात् । हृदयरक्षार्थं द्वादशवारं जपेत् ॥ ॐ ह्रीं सहस्रज्वालावर्तसहस्रार हुं फट् स्वाहा स्वाहा स्वाहा । छोटिकात्रयम् । य इदं पञ्जरं दिव्यं सर्वरक्षाकरं परम् । सर्वरोगप्रशमनं सर्वदारिद्र्यनाशनम् ॥ १॥ लक्ष्मी पुष्टिकरं गेहे पञ्जरं वज्रपञ्जरम् । सर्वशान्तिकरं नृणां पुत्रपौत्रविवर्धनम् ॥ २॥ एकधा पठणाद्देवि सर्वपापक्षयोभवेत् । दशधा पठणान्मन्त्री रणे युद्धजयीभवेत् ॥ ३॥ सहस्रं यः पठेद्यस्तु खेचरो जायते नरः । सहस्रदशकं यस्तु पठेद्वैभक्तिमान्नरः ॥ ४॥ स चास्य जगतां नाथो प्रत्यक्षो भवति ध्रुवम् । लक्षपूर्णं यदा देवी पञ्जरं प्रजपेत्सुधीः ॥ ५॥ भवपाशविनिर्मुक्तो देवतुल्यो न संशयः । नृसिंहमन्त्ररक्षाणां सर्वसिद्धिफलप्रदम् ॥ ६॥ भूर्जपत्रे लिखित्वा तु शिरसा धारयेत्सुधीः । शस्त्रघातान्न बाध्यन्ते सङ्ग्रामे शत्रुसङ्कटे ॥ ७॥ इदं तु पञ्जरं दिव्यं सर्वमन्त्रमयं शुभम् । सर्वरक्षाकरं नृणां देवदेवाभिवन्दितम् ॥ ८॥ मन्त्रवेत्ता गुरुं गत्वा गृहणीयप्रयत्नतः । अन्यथा ग्रहणे तस्य मृत्युद्वारं न संशयः ॥ ९॥ पठनेन पिशाचत्वं विना गुरूपदेशतः । तस्मात्प्रयत्नोऽपि चतुरो गुरुं मन्त्रविदां वरम् । अनुगच्छन् गृहीतव्यमिदं पञ्जरमाशुवत् ॥ १०॥ अनुज्ञां देहि । इत्यथर्वणरहस्ये ब्रह्मासावित्रीसंवादे श्रीनृसिंहपञ्जरस्तोत्रं सम्पूर्णम् । Proofread by M K Barman
% Text title            : Shri Nrisimhapanjaramantrah
% File name             : nRRisiMhapanjaramantraH.itx
% itxtitle              : nRisiMhapanjaramantraH
% engtitle              : nRisiMhapanjaramantraH
% Category              : vishhnu, dashAvatAra, mantra, panjara, viShNu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : M K Barman
% Description/comments  : nRRisiMhakosha 2 upAsanA khaNDa
% Indexextra            : (Scans 1, 2)
% Latest update         : August 4, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org