श्रीनृसिंहप्रादुर्भवः
सन्ध्याकाले गृहद्वारि स्थित्वोरौ स्थाप्य तं रिपुम् ।
वज्रतुल्यमहोरस्कं हिरण्यकशिपुं रुषा ॥
नखैः किसलयमिव दारयत्याह असौऽसुरः ।
यत्राखण्डलदन्तिदन्तमुसलान्याखण्डितान्याहवे ।
धारा यत्र पिनाकपाणिपरशोराकुण्ठतामागतम् ॥
तन्मे तावदुरो नृसिंहकरजैर्व्यादीर्यते मे वपुः ।
दैवे दुर्जनतां गते तृणमपि प्रारोप्यवज्ञायते ॥ १॥
पुष्पवर्षं च वर्षन्तो नरसिंहस्य मूर्धनि ।
देवाः सब्रह्मकाः सर्वे आगता प्रीतिसंयुताः ॥ २॥
आगत्य पूजयामासुर्नरसिंहं परं प्रभुम् ।
ब्रह्मा च दैत्यराजं हि प्रह्लादमभिषेचयत् ॥ ३॥
धर्मे रतिः समस्तानां जनानामभवत्तदा ।
इन्द्रोऽपि सर्वदेवैस्तु हरिणा स्थापितो दिवि ॥ ४॥
नरसिंहोऽपि भगवान् सर्वलोकहिताय वै ।
श्रीशैलशिखरं प्राप्य विश्रुतः सुरपूजितः ॥ ५॥
स्थितो भक्तहितार्थाय अभक्तानां क्षयाय च ।
इत्येतन्नरसिंहस्य माहात्म्यं यः पठेन्नरः ॥ ६॥
शृणोति वा नृपश्रेष्ठ मुच्यते सर्वपातकैः ।
नरो वा यदि वा नारी शृणोत्याख्यानमुत्तमम् ॥ ७॥
वैधव्यदुःखशोकाश्च दुष्टसङ्गात्प्रमुच्यते ।
दुःशीलोऽपि दुराचारो दुःप्रजो दोषकर्मकृत् ॥ ८॥
धर्मप्रिय भोगी च शृण्वच्छुद्धो भवेन्नरः ।
हरिः सुरेशो नरलोकपूजितो
हिताय लोकस्य चराचरस्य ।
कृत्वा विरूपं च पुरात्ममायया
हिरण्यकं दुःखकरं नखैश्च्छिन् ॥ ९॥
इति श्रीनृसिंहपुराणे नरसिंहप्रादुर्भवो नाम सम्पूर्णम् ।
Proofread by M K Barman