श्रीनृसिंहप्रादुर्भवः

श्रीनृसिंहप्रादुर्भवः

सन्ध्याकाले गृहद्वारि स्थित्वोरौ स्थाप्य तं रिपुम् । वज्रतुल्यमहोरस्कं हिरण्यकशिपुं रुषा ॥ नखैः किसलयमिव दारयत्याह असौऽसुरः । यत्राखण्डलदन्तिदन्तमुसलान्याखण्डितान्याहवे । धारा यत्र पिनाकपाणिपरशोराकुण्ठतामागतम् ॥ तन्मे तावदुरो नृसिंहकरजैर्व्यादीर्यते मे वपुः । दैवे दुर्जनतां गते तृणमपि प्रारोप्यवज्ञायते ॥ १॥ पुष्पवर्षं च वर्षन्तो नरसिंहस्य मूर्धनि । देवाः सब्रह्मकाः सर्वे आगता प्रीतिसंयुताः ॥ २॥ आगत्य पूजयामासुर्नरसिंहं परं प्रभुम् । ब्रह्मा च दैत्यराजं हि प्रह्लादमभिषेचयत् ॥ ३॥ धर्मे रतिः समस्तानां जनानामभवत्तदा । इन्द्रोऽपि सर्वदेवैस्तु हरिणा स्थापितो दिवि ॥ ४॥ नरसिंहोऽपि भगवान् सर्वलोकहिताय वै । श्रीशैलशिखरं प्राप्य विश्रुतः सुरपूजितः ॥ ५॥ स्थितो भक्तहितार्थाय अभक्तानां क्षयाय च । इत्येतन्नरसिंहस्य माहात्म्यं यः पठेन्नरः ॥ ६॥ श‍ृणोति वा नृपश्रेष्ठ मुच्यते सर्वपातकैः । नरो वा यदि वा नारी श‍ृणोत्याख्यानमुत्तमम् ॥ ७॥ वैधव्यदुःखशोकाश्च दुष्टसङ्गात्प्रमुच्यते । दुःशीलोऽपि दुराचारो दुःप्रजो दोषकर्मकृत् ॥ ८॥ धर्मप्रिय भोगी च श‍ृण्वच्छुद्धो भवेन्नरः । हरिः सुरेशो नरलोकपूजितो हिताय लोकस्य चराचरस्य । कृत्वा विरूपं च पुरात्ममायया हिरण्यकं दुःखकरं नखैश्च्छिन् ॥ ९॥ इति श्रीनृसिंहपुराणे नरसिंहप्रादुर्भवो नाम सम्पूर्णम् । Proofread by M K Barman
% Text title            : Shri Nrisimhapradurbhavah
% File name             : nRRisiMhaprAdurbhavaH.itx
% itxtitle              : nRisiMhaprAdurbhavaH
% engtitle              : nRisiMhaprAdurbhavaH
% Category              : vishhnu, dashAvatAra, narasiMhapurANa, viShNu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : M K Barman
% Description/comments  : nRRisiMhakosha 2 upAsanA khaNDa, narasiMhapurANa | adhyAya
% Indexextra            : (Scans 1, 2, padmapurANalist)
% Latest update         : August 4, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org