श्रीनृसिंह प्रातःस्मरणम्
प्रातःस्मरामि नृहरिं च अनन्तमाद्यं
लक्ष्याश्रिताङ्गममलं सुरसङ्घबन्धम् ।
यत्पादनिर्गतजलं जलमूर्ध्निधारी
श्रीशङ्करेण सततं दुरितापहारि ॥ १॥
प्रातःस्मरामि भुवनत्रयपालनाथ
स्तम्भं हिरण्यकशिपोः प्रविदारणाय ।
भित्वा नखैरजनि येन तमार्तबन्धुं
प्रह्लादरक्षणपरं करुणैकसिन्धुम् ॥ २॥
प्रातःस्मरामि फणिराजफणातपत्रं
पीताम्बरं त्रिनयनं कृतसच्चरित्रम् ।
चक्रं च शङ्खममलाब्जदादधानं
दौर्भिः सुवर्णमणिभूषणराजमानम् ॥ ३॥
प्रातःस्मरामि सितकण्ठमपापशीलं
क्षीरब्धिमध्यनिलयं हृतशत्रुजालम् ।
ब्रह्मात्मजादि मुनिभिः स्तुतमुग्ररूपं
नारायणं मुररिपुं विविधस्वरूपम् ॥ ४॥
प्रातःस्मरामि धृतदैत्यवरान्त्रमालं
दीर्घस्वरप्रचकितारिव लोकजालम् ।
घोरास्यलोलरसनं हरिमाप्तकामं
श्वासानिलक्षुभितवारिनिधि प्रकामम् ॥ ५॥
यः श्लोकपञ्चकमिदं प्रातर्नित्यं पठेन्नरः ।
तस्मै नरहरिः सर्वं मनोभिष्टं प्रयच्छति ॥ ६॥
इति श्रीनृसिंह प्रातःस्मरणं सम्पूर्णम् ।
Encoded and proofread by Animesh Nagar, NA