श्रीनृसिंहस्तवः
नरहरे हर कोपमनर्थदम् । तव रिपुर्निहतो भुवि वर्तते ।
कुरु कृपा मयि देव सनातनी । जगदिदं भयमेति भवदृशा ॥ १॥
तव वपुः किल सत्वमुदाहृतम् । तव हि कोपनमण्वपि नोचितम् ।
तदिह शान्तिमवाप्नुहि शर्मणे । हरगुणं हरिराश्रयसे कथम् ॥ २॥
सकलभीतिषु दैवतमस्मरन् । सकलभीतिमपोह्य सुखी पुमान् ।
भवति किं प्रवदामि तवेक्षणे । परमदुर्लभमेव तवेक्षणम् ॥ ३॥
स्मृतवतस्तवपादसरोरुहम् । मृतवतः पुरूषस्य विमुक्तता ।
तव कराभिहतो मृतभैरवो । न हि स एष पुनर्भवमेष्यति ॥ ४॥
दितिजसूनुममुं व्यसनार्दितम् । सकृदरक्षदुदारगुणोभवान् ।
सकलगत्वमुदीरमस्फुटम् । प्रकटमेव विधिसुरभूत्पुरा ॥ ५॥
सृजसि विश्वमिदं रजसावृतः । स्थितिविधौ श्रितसत्व उदायुधः ।
अवसि तद्धरणे तमसावृतो । हरसि देव तदा हरसंज्ञितः ॥ ६॥
तव जनिर्न गुणास्तव तत्वतो । जगदनुग्रहणाय भवादिकम् ।
तव पदं खलु वाङ्मनसातिगम् । श्रुतिवचश्चकितं तव बोधकम् ॥ ७॥
नरहरे तव नाम परिश्रवात् । प्रमथगुह्यकदुष्टपिशाचकाः ।
अपसरन्ति विभोऽसुरनायका । न हि पुरः स्थितये प्रभवन्त्यपि ॥ ८॥
त्वमेव सर्गस्थितिहेतुरस्य । त्वमेव नेता नृहरेऽखिलस्य ।
त्वमेव चिन्त्यो हृदयेऽनवद्य । त्वामेव चिन्मात्रमहं प्रपद्ये ॥ ९॥
हतो वराको हि रुपं नियच्छ । विश्वस्य भूमन्नभयं प्रयच्छ ।
एते हि देवा शममर्थयन्ते । निरीक्ष्य भीताः प्रतिस्वेदयन्ते ॥ १०॥
दृष्टुं न शक्याहि तवानुकम्पा । हीनैर्जनैः निहनुत कोटिशम्पाम् ।
मूर्तिरुदात्मन्नुपसंहरेमाम् । पाहि त्रिलोक समतीतसीमाम् ॥ ११॥
इति श्रीमदाद्यशङ्कराचार्यकृतः नृसिंहस्तवः सम्पूर्णः ।
Reference
(श्री पद्मपादाचार्यान्नी नृसिंहरूपाने कापालिकाला ठार मारले त्याप्रसङ्गीचे
नृसिंहस्तवन-
श्री सन्त दासगणू विरचित श्रीमदाद्यशङ्कराचार्य चरितामृत
पृष्ठ १५४ अध्याय २१ वा (खण्ड ८ वा श्री. अ. दा. आठवले. सम्पादक.)
Proofread by M K Barman