श्रीनृसिंहस्तवननमन
हरिः ॐ ।
देवा ह वै प्रजापतिमब्रुवन् अथ कैर्मन्त्रैर्देवः स्तुतः प्रीतो भवति
स्वात्मानं दर्शयति तन्नो ब्रूहि भगवन् इति सहोवाच प्रजापतिः ।
ॐ यो वै नरसिंहो देवो भगवान् यश्च ब्रह्मा तस्मै वै नमो नमः ।
ॐ यक्ष विष्णुस्तस्मै वै नमो नमः ।
ॐ यक्ष महेश्वरस्तस्मै वै नमो नमः ।
ॐ यश्च पुरुषस्तस्मै वै नमो नमः ।
ॐ यश्चेश्वरस्तस्मै वै नमो नमः !
ॐ या सरस्वती तस्मै वै नमो नमः ।
ॐ या श्रीस्तस्मै वै नमो नमः ।
ॐ या गौरी तस्मै वै नमो नमः ।
ॐ या प्रकृतिस्तस्मै वै नमो नमः ।
ॐ या विद्यास्तस्मै वै नमो नमः ।
ॐ यक्ष ओङ्कारस्तस्मै वै नमो नमः ।
ॐ यक्ष न्यासः चतकससे अर्धमात्रास्तमै वै नमो नमः ।
ॐ यक्ष वेदाः साङ्गास्सशाखास्तस्मै वै नमो नमः ।
ॐ ये पञ्चाग्नयस्तस्मै वै नमो नमः ।
ॐ याः सप्त व्याहृतयस्तस्मै वै नमो नमः ।
ॐ ये चाष्टौ लोकपालाः तेभ्यो वै नमो नमः ।
ॐ ये चाष्टौ वसवः तेभ्यः वै नमो नमः ।
ॐ ये च रुद्रास्तेभ्यो वै नमो नमः ।
ॐ ये चादित्यास्तेभ्यो वै नमो नमः ।
ॐ ये चाष्टौ ग्रहास्तेभ्यो वै नमो नमः ।
ॐ यानि पञ्चमहाभूतानि तेभ्यो वै नमो नमः ।
ॐ यक्ष कालस्तस्मै वै नमो नमः ।
ॐ यश्च मनुस्तस्मै वै नमो नमः ।
ॐ यश्च मृत्युस्तस्मै वै नमो नमः ।
ॐ यश्च यमस्तस्मै वै नमो नमः ।
ॐ यक्ष अन्तकस्तस्मै वै नमो नमः ।
ॐ यक्ष प्राणस्तस्मै वै नमो नमः ।
ॐ यश्च सूर्यस्तस्मै वै नमो नमः ।
ॐ यश्च सोमस्तस्मै वै नमो नमः ।
ॐ यश्च विराटस्तस्मै वै नमो नमः ।
ॐ यक्ष जीवस्तस्मै वै नमो नमः ।
ॐ यश्च सर्वस्तस्मै वै नमो नमः ।
इति तान् प्रजापतिरब्रवीत् । एतैर्द्वात्रिंशतमन्त्रैर्नित्यं देवं स्तुविध्वम् ।
ततो देवः प्रीतो भवति । आत्मानं दर्शयति । तस्मा यः एतैर्मन्त्रैर्नित्यं
देवं स्तौति सः देवं पश्यति सोऽमृतत्वं च गच्छति ।
तमेवं वेद ।
इति महोपनिषद् ।
इति श्रीनृसिंहस्तवननमन ।
Proofread by M K Barman