श्रीनृसिंहस्तोत्रम् ३

श्रीनृसिंहस्तोत्रम् ३

कुन्देन्दुश्शङ्खवर्णः कृतयुगभगवान्पद्मपुष्पप्रदाता त्रेतायां काञ्चनाभः पुनरपि समये द्वापरे रक्तवर्णः । शङ्के सम्प्राप्तकाले कलियुगसमये नीलमेघश्च नाभौ । प्रद्योतसृष्टिकर्ता परबलदमनः पातु मां नारसिंहः ॥ १॥ नासाग्रं पीनगण्डं परबलमदनं बद्धकेयुरहारं वज्रं दंष्ट्राकरालं परिमितगणनः कोटिसूर्याप्तितेजः । गाम्भीर्यं पिङ्गलाक्षं भ्रुकिटितटमुखं केशकेशार्धभागं वन्दे भीमाट्टहासं त्रिभुवनविजयः पातु मां नारसिंहः ॥ २॥ पादद्वन्द्वं धरित्र्यां पटुतरविपुलं मेरुमध्याह्नसेतुं नाभिं ब्रह्माण्डसिन्धो हृदयमभिमुखं भूतविध्वंसनेतः । आहुश्चक्रं तस्य बाहुं कुलिशनखमुखं चन्द्रसूर्याग्निनेत्रम् । वक्त्रं वह्न्यस्य विद्वत्सुरणगविनुतः पातु मां नारसिंहः ॥ ३॥ घोरं भीमं महोग्नं स्फटिककुटिलता भीमपालं पलाक्षं चोर्ध्वं केशं प्रलयशशिमुखं वज्रदंष्ट्राकरालम् । द्वात्रिंशद्बाहूयुग्मं परिखगदाशूलपाशाग्निधारं वन्दे भीमाट्टहासं नखगुणविजयः पातु मां नारसिंहः ॥ ४॥ गोकण्ठं दारुणान्तं वनवरविटपी डिंडिडिंडोटडिंभं डिंभं डिंभं डिडिंभं दहमपी दहमः झंप्रझंप्रेस्तु झं प्रैः । तुल्यस्तुल्यस्तुतुल्य त्रिघुघ घुमघुमां कुङ्कुमां कुङ्कुमाङ्गं इत्येवं नारसिंहं वहति ककुभतः पातु मे नारसिंहः ॥ ५॥ भूभृद्भूजङ्गं मकरकरकरप्रज्वलज्ज्वालमालं खर्जन्तं खर्जखर्जं खजखजखजितं खर्जखर्जर्जयन्तम् । भूभागं भोगभागं गगगगगहनं कद्रुमुद्धृत्य कण्ठं स्वच्छं पुच्छं सुकच्छं स्वचितहितकरः पातु मां नारसिंहः ॥ ६॥ झंझं झुंकारकारं जटिमटिजननं जानुरूपं जकारं हं हं हंसस्वरूपं हयशतककुभं अट्टहासं विवेशम् । वंवंवं वायुवेगं सुरवरविनुतं वामनाक्षं सुरेशं लंलंलंलालिताक्षं नखगुणविजयः पातु मां नारसिंहः ॥ ७॥ यं दृष्ट्वा नारसिंहं विकृतनखमुखं तीक्ष्णदंष्ट्राकरालं पिङ्गाक्षं स्निग्धवर्णं जितवपुसदृशः कुँचिताग्रोग्रतेजाः । भीताऽमी दानवेन्द्रास्सुरभयविनृतिश्शक्तिनिर्मुक्तहस्तं नासास्यं किं किमेतं क्षं वितजनकजः पातु मां नारसिंहः ॥ ८॥ श्रीवत्साङ्कं त्रिनेत्रं शशिधरधवलं चक्रहस्तं सुरेशं वेदाङ्गं वेदनादं विनुततनुविदं वेदरूपं स्वरूपम् । होंहोंहोंकारकारं हुतवहनयनं प्रज्ज्वलज्ज्वालफालं क्षंक्षंक्षं बीजरूपं नरहरिविनुतः पातु मां नारसिंहः ॥ ९॥ अहो वीर्यमहो शौर्यं महाबलपराक्रमम् । नारसिंहं महादेवं अहोबलमहाबलम् ॥ १०॥ ज्वालाहोबलमालोलः क्रोडाकारं च भार्गवम् । योगानन्दं छत्रवटपावनाननमूर्तये ॥ ११॥ श्रीमन्नृसिंह विभवे गरुडध्वजाय तापत्रयोपशमनाय भवौषधाय । तृष्णादिवृश्चिकजलाग्निभुजङ्गरोग- क्लेशव्ययाय हरये गुरवे नमस्ते ॥ इति श्रीनृसिंहस्तोत्रं सम्पूर्णम् । Encoded by Ganesh Kandu kanduganesh at gmail.com Proofread by Ganesh Kandu, PSA Easwaran
% Text title            : nRRisiMhastotram 3
% File name             : nRRisiMhastotram3.itx
% itxtitle              : nRRisiMhastotram 3 (kundendu)
% engtitle              : nRRisiMhastotram 3
% Category              : vishhnu, dashAvatAra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ganesh Kandu kanduganesh at gmail.com
% Proofread by          : Ganesh Kandu, NA, PSA Easwaran
% Description/comments  : shodhagangA thesis about Nrisimha cult Appendix 1
% Indexextra            : (thesis)
% Latest update         : July 13, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org