श्रीनृसिंहस्तोत्रम् ५
श्रीगणेशाय नमः । ॐ नमो भगवते वीरनारसिंहाय
करालमुखाय । अघोर नारसिंहाय । रौद्राग्निज्वालानारसिंहाय ।
प्रज्वलितनेत्रत्रयाय । कालाग्निरौद्रावताराय । ज्वालानारसिंहाय ।
नरमृगनखदंष्ट्राकरालमुखाय । हिरण्याक्षछेदनाय ।
रक्तमांसोग्रसेविताय । परमज्योतिवडवानलश्री वीरनारसिंहाय ।
विक्रमरुद्राकारविश्वरूपस्तम्भोद्भवाय । रव रव रजत रजत ऊर्जित
ऊर्जित धगधगत गच्छ गच्छ । भूगोल भूगोल ब्रह्माण्डभैरवाय ।
ताण्डवनारसिंहाय । प्रह्लादवरदाय । श्रीकेशवादिरूपाय ।
दशविधावताराय । एकादशरुद्राद्वादशभानुतेजज्वालानारसिंहाय ।
मानवगुरुप्रसाद जरामरणदारिद्रयनिवारणाय स्वाहा ।
मन्त्रयन्त्रतन्त्ररक्षणाय । सर्वभूतप्रेतपिशाचान्नाशय ।
यक्षराक्षसब्रह्मराक्षसशाकिनीडाकिनीकामिनीगान्धर्वपरविद्या-
सर्वमन्त्रयन्त्रतन्त्रग्रहशून्यग्रहान्निवारय ।
सर्वगृहधनाय संजर । सर्वमरिसर्वशूलनिवारणाय । श्री
नारसिंहाय । क्ष्रं क्ष्रं हं हं घं घं भं भं औं यं ह्रीं
ह्रीं यं रं रं यं यं हुं हुं फट् स्वाहा ।
इति श्रीनारसिंहस्तोत्रं सम्पूर्णम् । शुभं भवतु ।
Proofread by M K Barman