प्रह्लादकृत श्रीनृसिंहमन्त्रः
ॐ अस्य श्रीअभयनरसिंहमन्त्रस्य शुकऋषिः,
जगति छन्दः, रौं बीजम् ।
अथ मन्त्रः ।
प्रह्लाद उवाच ।
ॐ नमो भगवते नरसिंहाय ।
नमस्तेजस्तेजसे आविराविर्भव (वज्रनख) वज्रदंष्ट्र कर्माशयान्
रन्धय रन्धय तमो ग्रस ग्रस ॐ स्वाहा ।
अभयं ममात्मनि भूयिष्ठा ॐ क्ष्रौम् ॥
इति ।
देवीभागवतपुराणे अष्टमस्कन्धे नवमोध्यायः