॥ नृसिंहस्तोत्रम् गरुडपुराणान्र्गतम् ॥

सूत उवाच । नारसिंहस्तुतिं वक्ष्ये शिवोक्तं शौनकाधुना । पूर्वं मातृगणाः सर्वे शङ्करं वाक्यमब्रुवन् ॥ १॥ भगवन्भक्षयिष्यामः सदेवासुरमानुषम् । त्वत्प्रसादाज्जगत्सर्वं तदनुज्ञातुमर्हसि ॥ २॥ शङ्करौवाच । भवतीभिः प्रजाः सर्वा रक्षणीया न संशयः । तस्माड्वोरतरप्रायं मनः शीघ्रं निवर्त्यताम् ॥ ३॥ इत्येवं शङ्करेणोक्तमनादृत्य तु तद्वचः । भक्षयामासुरव्यग्रास्त्रैलोक्यं सचराचरम् ॥ ४॥ त्रैलोक्ये भक्ष्यमाणे तु तदा मातृगणेन वै । नृसिंहरूपिणं देवं प्रदध्यौ भगवाञ्छिवः ॥ ५॥ अनादिनिधनं देवं सर्वभूतभवोद्भवम् । विद्युज्जिह्वं महादंष्ट्रं स्फुरत्केसरमालिनम् ॥ ६॥ रत्नाङ्गदं समुकुटं हेमकेसरभूषितम् । खोणिसूत्रेण महता काञ्चनेन विराजितम् ॥ ७॥ नीलोत्पलदलश्यामं रत्ननूपुरभूषितम् । तेजसाक्रान्तसकलब्रह्माण्डोदरमण्डपम् ॥ ८॥ आवर्तसदृशाकारैः संयुक्तं देहरोमभिः । सर्वपुष्पैर्योजिताञ्च धारयंश्च महास्त्रजम् ॥ ९॥ स ध्यातमात्रो भगवान्प्रददौ तस्य दर्शनम् । यादृशेन रूपेण ध्यातो रुद्रैस्तु भक्तितः ॥ १०॥ तादृशेनैव रूपेण दुर्निरीक्ष्येण दैवतैः । प्रणिपत्य तु देवेशं तदा तुष्टाव शङ्करः ॥ ११॥ शङ्कर उवाच । नमस्तेऽस्त जगन्नाथ नरसिंहवपुर्धर । दैत्येश्वरेन्द्रसंहारिनखशुक्तिविराजित ॥ १२॥ नखमण्डलसभिन्नहेमपिङ्गलविग्रह । नमोऽस्तु पद्मनाभाय शोभनाय जगद्गुरो । कल्पान्ताम्भोदनिर्घोष सूर्यकोटिसमप्रभ ॥ १३॥ सहस्रयमसंत्रास सहस्रेन्द्रपराक्रम । हसस्त्रधनदस्फीत सहस्रचरणात्मक ॥ १४॥ सहस्रचन्दप्रतिम ! सहस्रांशुहरिक्रम । सहस्ररुद्रतेजस्क सहस्रब्रह्मसंस्तुत ॥ १५॥ सहस्ररुद्रसंजप्त सहस्राक्षनिरीक्षण । सहस्रजन्ममथन सहस्रबन्धनमोचन ॥ १६॥ सहस्रवायुवेगाक्ष सहस्राज्ञकृपाकर । स्तुत्वैवं देवदेवेशं नृसिंहवपुषं हरिम् । विज्ञापयामास पुनर्विनयावनतः शिवः ॥ १७॥ अन्धकस्य विनाशाय या सृष्टा मातरो मया । अनादृत्य तु मद्वाक्यं भक्ष्यन्त्वद्भुताः प्रजाः ॥ १८॥ सृष्ट्वा ताश्च न शक्तोऽहं संहर्तुमपराजितः । पूर्वं कृत्वा कथं तासां विनाशमभिरोचये ॥ १९॥ एवमुक्तः स रुद्रेण नरसिहवपुर्हरिः । सहस्रहेवीर्जिह्वाग्रात्तदा वागीश्वरो हरिः ॥ २०॥ तथा सुरगणान्सर्वान्रौद्रान्मातृगणान्विभुः । संहृत्य जगतः शर्म कृत्वा चान्तर्दधे हरिः ॥ २१॥ नारसिंहमिदं स्तोत्रं यः पठेन्नियतेन्द्रियः । मनोरथप्रदस्तस्य रुद्रस्येव न संशयः ॥ २२॥ ध्यायेन्नृसिंहं तरुणार्कनेत्रं सिदाम्बुजातं ज्वलिताग्निवत्क्रम् । अनादिमध्यान्तमज पुराणं परापरेशं जगतां निधानम् ॥ २३॥ जपेदिदं सन्ततदुःखजालं जहाति नीहारमिवांशुमाली । समातृवर्गस्य करोति मूर्तिं यदा तदा तिष्ठति तत्समीपे ॥ २४॥ देवेश्वरस्यापि नृसिंहमूर्तेः पूजां विधातुं त्रिपुरान्तकारी । प्रसाद्य तं देववरं स लब्ध्वा अव्याज्जगन्मातृगणेभ्य एव च ॥ २५॥ इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नृसिंहस्तोत्रं नामैकत्रिंशदुत्तरद्विशततमोऽध्यायः ।
Garuda Purana 1,231.1-25 Proofread by

% Text title            : nRisiMhastotram garuDapurANAnrgatam
% File name             : nRisiMhastotramgaruDapurANa.itx
% itxtitle              : nRisiMhastotram (garuDapurANAntargatam)
% engtitle              : Nrisinhastotram from Garuda Purana
% Category              : vishhnu, dashAvatAra, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : Garudapurana 1.231.1-25
% Latest update         : July 28, 2012
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP