श्रीनृसिंहाष्टोत्तरशतनामस्तोत्रम्
॥ श्रीः ॥
श्रीनृसिंहो महासिंहो दिव्यसिंहो महाबलः ।
उग्रसिंहो महादेव उपेन्द्रश्चाऽग्निलोचनः ॥ १॥
रौद्रश्शौरिर्महावीरस्सुविक्रम-पराक्रमः ।
हरिकोलाहलश्चक्री विजयश्चाजयोऽव्ययः ॥ २॥
दैत्यान्तकः परब्रह्माप्यघोरो घोरविक्रमः ।
ज्वालामुखो ज्वालमाली महाज्वालो महाप्रभुः ॥ ३॥
निटिलाक्षः सहस्राक्षो दुर्निरीक्ष्यः प्रतापनः ।
महादंष्ट्रायुधः प्राज्ञो हिरण्यकनिषूधनः ॥ ४॥
चण्डकोपी सुरारिघ्नस्सदार्तिघ्न-सदाशिवः ।
गुणभद्रो महाभद्रो बलभद्रस्सुभद्रकः ॥ ५॥
कराळो विकराळश्च गतायुस्सर्वकर्तृकः ।
भैरवाडंबरो दिव्यश्चागम्यस्सर्वशत्रुजित् ॥ ६॥
अमोघास्त्रश्शस्त्रधरः सव्यजूटस्सुरेश्वरः ।
सहस्रबाहुर्वज्रनखस्सर्वसिद्धिर्जनार्दनः ॥ ७॥
अनन्तो भगवान् स्थूलश्चागम्यश्च परावरः ।
सर्वमन्त्रैकरूपश्च सर्वयन्त्रविधारणः ॥ ८॥
अव्ययः परमानन्दः कालजित् खगवाहनः ।
भक्तातिवत्सलोऽव्यक्तस्सुव्यक्तस्सुलभश्शुचिः ॥ ९॥
लोकैकनायकस्सर्वश्शरणागतवत्सलः ।
धीरो धरश्च सर्वज्ञो भीमो भीमपराक्रमः ॥ १०॥
देवप्रियो नुतः पूज्यो भवहृत् परमेश्वरः ।
श्रीवत्सवक्षाः श्रीवासो विभुस्सङ्कर्षणः प्रभुः ॥ ११॥
त्रिविक्रमस्त्रिलोकात्मा कामस्सर्वेश्वरेश्वरः ।
विश्वंभरः स्थिराभश्चाऽच्युतः पुरुषोत्तमः ॥ १२॥
अधोक्षजोऽक्षयस्सेव्यो वनमाली प्रकंपनः ।
गुरुर्लोकगुरुस्स्रष्टा परंज्योतिः परायणः ॥ १३॥
ज्वालाहोबिलमालोल-क्रोडाकारञ्जभार्गवाः ।
योगनन्दश्चत्रवटः पावनो नवमूर्तयः ॥ १४॥
॥ श्री नृसिंहाष्टोत्तरशतनामस्तोत्रं संपूर्णम् ॥
Encoded and proofread by
N. Balasubramanian bbalu at satyam.net.in