नैवेद्यप्रकारः
नित्यानन्द चिदाकृते त्रिजगतीचित्रान्नभुक्तेऽनिशं
विष्वग्व्याप्त बृहच्छरीर निरनिष्टावद्यविद्रावण ।
मुक्ताधीश्वर दुर्घतान्नघटनाचातुर्यधुर्य प्रभो
कः कुर्यात्प्रति ते विनाऽञ्जलिपुटं भक्तोऽल्पको वा महान् ॥ १॥
सर्पिःपायसकर्दमामृतनदीनाथेदमाद्यं किल
क्षद्रक्षीरमपूपशाकविविधान्नद्यं किलेदं तव ।
दुग्धाब्ध्युन्मथनोत्थसद्धनसुधाविश्राणनं योऽकरो-
स्तस्य श्रीश तवान्वहं नम इति प्रह्वत्वमेवार्हणम् ॥ २॥
भक्त्या नाभजमीदृशं त्वसदृशं त्वां सद्वशं मादृशं
प्रत्यर्प्यादृतया दृशं निजमनस्याद्यादृशं तादृशम् ।
सोऽहं दुर्विषयौघमोहविषमो दोषोत्थरोषो द्विषो-
नथेमां सुरयूथनाथ कुरुते गाथाब्धिपाथःपथम् ॥ ३॥
वादिराजयतिप्रोक्तं श्लोकत्रयमिदं सदा ।
पूजावसानसमये पठेत्केशवसन्निधौ ॥ ४॥
इति श्रीमद्वादिराजपूज्यचरणविरचितं
नैवेद्यप्रकारः सम्पूर्णः ।
भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ।
Proofread by Sripriya