नैवेद्यसमर्पणप्रार्थना
यशोदायाः स्तन्ये तदनुनवनीते व्रजगवां
विहारे दध्यन्ने व्रजयुवतिदत्ते बहुगुणे ।
तथा मित्रात्प्राप्ते पृथुकवरमुष्टौ मुरहरे
यया प्रीतिस्तां मे प्रकटय सुनैवेद्यनिचये ॥ १॥
विदुरस्य गृहे प्रीत्या यथा भुक्तं व्रजेश्वर ।
तथैव भुङ्क्ष्व नैवेद्यं मयि नाथ कृपां कुरु ॥ २॥
ब्रह्माद्यैर्यः परित उरुभी रूपवेषैः सुवेषो
लक्ष्म्या शिञ्जद्वलयकरया सादरं वीज्यमानः ।
नर्मक्रीडाप्रहसितमुखो भोजयन् भक्तियुक्तान्
भुङ्क्ते पात्रे कनकघटितं षड्रसं श्रीरमेशः ॥ ३॥
नायिकाष्टकयुक्तोऽत्र भोजनं कुरु माधव ।
षड्रसामृतनैवेद्यं स्वर्णपात्रे समर्पितम् ॥ ४॥
यथा त्वं गोपिकादीनां निजानन्दं प्रयच्छसि ।
तथैव भुक्तान्नशिष्टं भक्तेभ्यो यच्छ पुष्कलम् ॥ ५॥
ब्रह्माद्याः सनकाद्याश्च नारदाद्या महत्तमम् ।
हरिभुक्तावशिष्टान्नं सर्वे गृह्णन्ति वैष्णवाः ॥ ६॥
इति श्रीनैवेद्यसमर्पणप्रार्थना समाप्ता ।
Proofread by PSA Easwaran