नरसिंह नित्यस्तवनम्
हरिः ॐ
देवा ह वै प्रजापतिमब्रुवन् अथ कैर्मन्त्रैर्देवः स्तुतः प्रीतो भवति स्वात्मानं
दर्शयति तन्नो ब्रूहि भगवन् इति सहोवाच प्रजापतिः ।
ॐ यो वै नरसिंहो देवो भगवान् यश्च ब्रह्मा तस्मै वै नमो नमः ।
ॐ यो वै नरसिंहो देवो भगवान् यश्च विष्णुस्तस्मै वै नमो नमः ।
ॐ यो वै नरसिंहो देवो भगवान् यश्च महेश्वरस्तस्मै वै नमो
नमः ।
ॐ यो वै नरसिंहो देवो भगवान् यश्च पुरुषस्तस्मै वै नमो नमः ।
ॐ यो वै नरसिंहो देवो भगवान् यश्चेश्वरस्तस्मै वै नमो नमः ।
ॐ यो वै नरसिंहो देवो भगवान् या सरस्वती तस्मै वै नमो
नमः ।
ॐ यो वै नरसिंहो देवो भगवान् या श्रीस्तस्मै वै नमो नमः ।
ॐ यो वै नरसिंहो देवो भगवान् या गौरी तस्मै वै नमो नमः ।
ॐ यो वै नरसिंहो देवो भगवान् या प्रतिस्तस्मै वे नमो नमः ।
ॐ यो वै नरसिंहो देवो भगवान् या विद्यास्तस्मै वै नमो नमः ।
ॐ यो वै नरसिंहो देवो भगवान् यश्च ॐकारस्तस्मै वै नमो नमः ।
ॐ यो वै नरसिंहो देवो भगवान् यश्च न्यासचेतस् सरोधं मात्रास्तस्मै
वै नमो नमः ।
ॐ यो वै नरसिंहो देवो भगवान् यश्च ये वेदाः साङ्गा सशाखास्तस्मै
वै नमो नमः ।
ॐ यो वै नरसिंहो देवो भगवान् ये पंचाग्नयस्तस्मै वै नमो नमः ।
ॐ यो वै नरसिंहो देवो भगवान् याः सप्तव्याहृतयस्तस्मै वै नमो नमः ।
ॐ यो वै नरसिंहो देवो भगवान् ये चाष्टौ लोकपालास्तस्मै वै नमो नमः ।
ॐ यो वै नरसिंहो देवो भगवान् ये च रुद्रास्तस्मै वै नमो नमः ।
ॐ यो वै नरसिंहो देवो भगवान् ये चादित्यास्तस्मै वै नमो नमः ।
ॐ यो वै नरसिंहो देवो भगवान् ये चाष्टौ ग्रहास्तमै वै नमो नमः ।
ॐ यो वै नरसिंहो देवो भगवान् यानि पंचमहाभूतानि तस्मै वैनमो नमः ।
ॐ यो वै नरसिंहो देवो भगवान् यश्च कालस्तस्मै वै नमो नमः ।
ॐ यो वै नरसिंहो देवो भगवान् यश्च मनुस्तस्मै वै नमो नमः ।
ॐ यो वै नरसिंहो देवो भगवान् यश्च मृत्युस्तस्मै वै नमो नमः ।
ॐ यो वै नरसिंहो देवो भगवान् यश्च यमस्तस्मै वै नमो नमः ।
इति नरसिंह स्तवनं सम्पूर्णम् ।
Encoded and proofread by Ajay Phatak