श्रीनिम्बाद्रीलक्ष्मीनृसिंहप्रपत्तिः
लक्ष्मी पक्षिरथस्य वक्षसि गतामब्जे क्षणीमब्जाम् ।
क्षुद्रक्षुब्धदरिद्रभक्तजनतारक्षादुरीणक्षमाम् ।
क्षीरोदप्रिय पुत्रिकान्त्रिजगतः क्षेमङ्करी भास्वरीम् ।
वन्दे निम्बगिरीशमेश नृहरेर्वामाङ्कगां मातरम् ॥ १॥
जननी जगतामशेषशक्तेर्जगदीशस्य जनार्दनस्य पत्नीम् ।
कमलाममलाब्जपत्रनेत्रां कलये मनसा हिरण्यवर्णाम् ॥ २॥
लक्ष्मीपते नरहरे नतभक्तपाल
नारायणाश्रित सुखप्रद दैत्यहारिन् ।
निम्बाद्रिकन्दरनिवास सुरेशवन्द्य
लक्ष्मीनृसिंहचरणौ शरणं प्रपद्ये ॥ ३॥
भक्तस्समर्पित पवित्रसहस्रनाम
पूजाविधीय तुलसीदलशोभमानौ ।
प्राप्यां भवाब्धितरणे तरणिस्स्वरूपां
निम्बाद्रिनाथचरणौ शरणं प्रपद्ये ॥ ४॥
कालीयमस्तकमणीन्द्र विशेषशोभा
नीराजितो सुरनदीजननालवालोम् ।
भूम्यन्तरिक्ष परिमापक मानदण्डों
निम्बाद्रिनाथचरणौ शरणं प्रपद्ये ॥ ५॥
राजीवचक्ररथशङ्खघटातपत्र
सन्तानहस्तिमणिवज्रविशेषचिन्हेः ।
युक्तौ सुरासुरकिरीटमणिद्युभासां
निम्बाद्रिनाथचरणौ शरणं प्रपद्ये ॥ ६॥
पद्माक्षमादिमहिषिभिरदभ्रभीत्या
संवाह्यमानमृदुलौ मधुरायमानाम् ।
तापत्रयातुरजनस्य शरण्यभूतौ
निम्बाद्रिनाथचरणौ शरणं प्रपद्ये ॥ ७॥
पङ्केरुहद्वयसमागमसुन्दरौ तौ
भक्ताक्षिभृङ्गपरिवेष्टितनीलशोभाम् ।
राकाकलाधरदशेव नखप्रकाशां
निम्बाद्रिनाथ चरणौ शरणं प्रपद्ये ॥ ८॥
सद्भक्तमानससरोवरराजहंसा
साङ्गाखिलश्रुतिशिरोमकटायमानाम् ।
ब्रह्मादिकीरजगदेकशरण्यभूतौ
निम्बाद्रिनाथ चरणौ शरणं प्रपद्ये ॥ ९॥
प्रह्लादगौतमसती मुचकुन्द पार्थ
भीष्मादिभक्तजनसंवितभव्यरूपौ ।
सर्वाद्यशान्तिकरसर्वशरण्यभूते
निम्बाद्रिनाथ चरणौ शरणं प्रपद्ये ॥ १०॥
गोविन्दलान्वयसुधाकरनारसिंह
श्रीश्रीनिवासगुरुपुङ्गवयुग्मकेन ।
प्राप्यौ तवेति ममदर्शितपैतृकस्वौ
निम्बाद्रिनाथ चरणौ शरणं प्रपद्ये ॥ ११॥
इति श्रीनिम्बाद्रीलक्ष्मीनृसिंहप्रपत्तिः सम्पूर्णा ।
Proofread by M K Barman