श्रीनिम्बाद्रीलक्ष्मीनृसिंहस्तोत्रम्
रमणीयरमास्तनमण्डलसङ्गतगन्धसुगन्धित सिंहतनो ।
करुणारुणदीर्घद्गब्ज हरे विजयी भव निम्बागिरीन्द्रपते ॥ १॥
हर पङ्कजजन्म सुरेन्द्र महाविबुधाधिपसेवित देवमणे ।
नतभक्तमनस्तिमिरद्युमणे परिपालय निम्बगिरीश हरे ॥ २॥
मतिहीनतया वनितावदनस्तनलोभकृतैस्मरमोहशरैः ।
विवशं नृपशुं नरसिंह विभो कुरु मां तव पादसरोजवशम् ॥ ३॥
वर निम्बगिरीन्द्र दरीविहरत्सुरसिंह नृसिंह दयाजलधे ।
निगमान्तनिबोधित कीर्तियुतान्नरसिंह विधेर्न पयं कलये ॥ ४॥
नखदंष्ट्रसुशोभित केसरभूल्ललितोरु सुफुल्लमुखाब्ज हरे ।
नतर क्षणदक्ष विवाशान्मां परिपालय निम्बगिरीन्द्रपते ॥ ५॥
सुरवैरिविनाशक कोपवशात् कृतगर्जननिर्जित दैत्यगणम् ।
सफलीकृत सर्वजगत्रितयं नरसिंह महामनसा कलये ॥ ६॥
वरदं नतभक्तमनोवशगं कमलापतिमम्बुध नीलतनुम् ।
धनदं च दयाकृतसिंहतनुं न कदापि धुनोमि ह्रदा नृहरिम् ॥ ७॥
भुजशाखमभीष्टफलप्रकरं धनशङ्खसुदर्शनपुष्पधरम् ।
कमलालतिकावृतकल्पतरुं नरसिंहं महामनसा कलये ॥ ८॥
हरिं निम्बशैलेशमीशं विना मे गतिर्नैव गम्यं च नैवास्ति लोके ।
ततस्तत्पदाम्भोजयुग्मं भजेऽहं श्रियं नारसिंहः स्वयं मे ददातु ॥ ९॥
शरद्येकवारं हि निम्बाद्रिनाथं श्रियाश्लिष्टरूपं गुहामन्दिरस्थम् ।
सुधासेवते यः समग्राब्दपुण्यं ददात्यैव निम्बाद्रिलक्ष्मीनृसिंहः ॥ १०॥
महापराधयुक्तेन मया स्तोत्रं कृतं हरे ।
क्षमस्व शाब्दिकान् दोषान् निम्बशैलदरीमणे ॥ ११॥
इति श्रीनिम्बाद्रीलक्ष्मीनृसिंहस्तोत्रं सम्पूर्णम् ।
Proofread by M K Barman