श्रीनिम्बाद्रीलक्ष्मीनृसिंह सुप्रभातम्
कौसल्या सुप्रजाराम पूर्वसन्ध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमान्हिकम् ॥
उत्तिष्ठोत्तिष्ठ लक्ष्मीश निम्बाद्रिनिलयाच्युत ।
उत्तिष्ठ नरहर्यक्ष त्रैलोक्यं मङ्गलं कुरु ॥
मातर्विरञ्चिमुख विश्वचराचराणां
वैकुण्ठमन्दिर मनोहर दीपरेखे ।
वन्दारुभक्तजनवाञ्छितदानशौण्डे
निम्बाद्रिनाथ दयिते तव सुप्रभातम् ॥ १॥
तव सुप्रभातमखिलार्थसाधिके
मधुवैरिपलिजलजातपुत्रिके ।
नवपुण्डरीकदलदीर्घनेत्रिके
वर निम्बशैलपतिभाग्यजीविके ॥ २॥
वसिष्ठ कुम्भभवभव्यतपःप्रभाव
कौण्डिण्यसिद्धऋषयः कृतकल्यकृत्या ।
नैहीं तनुं तव विलोकयितुं प्रविष्टाः
निम्बाद्रिनाथ नृहरे तव सुप्रभातम् ॥ ३॥
प्रह्लादनारदमुखाः परतत्त्वविज्ञाः
प्रातर्विधि परिसमाप्य समागतास्ते ।
पङ्केरुहैस्तव पदौ परिपूजनाय
निम्बाद्रिनाथ नृहरे तव सुप्रभातम् ॥ ४॥
सेनेशशेषगरूडादिसमस्तनित्याः
दिव्यानि भूरि विरजा जलजानि नीत्त्वा ।
प्राप्तास्त्वदीय पदपङ्कजपूजनाय
निम्बाद्रिनाथ नृहरे तव सुप्रभातम् ॥ ५॥
सन्निम्बवृक्षसमुसङ्गि समीरडिम्भाः
शीतैर्लतान्तमकरन्दकणैश्च युक्ताः ।
मन्दं प्रवाति तव कन्दरमन्दिरान्ते
निम्बाद्रिनाथ नृहरे तव सुप्रभातम् ॥ ६॥
मार्तण्डमङ्गलकरस्फुटपद्ममध्यात्
भृङ्गाः प्रकर्षमधुपानविशेषमत्ताः ।
गच्छन्ति पुष्पमनुपुष्पमदभ्रगीत्या
निम्बाद्रिनाथ नृहरे तव सुप्रभातम् ॥ ७॥
त्वं क्षेत्रगोत्रपरितस्थितघोषयोषाः
मध्नन्ति मङ्गलरवं दधिचन्द्रिकाभम् ।
तध्वान्तमुक्ततमसः ककुभः प्रभान्ति
निम्बाद्रिनाथ नृहरे तव सुप्रभातम् ॥ ८॥
श्रीनिम्बशैलवरकन्दरमन्दिरान्तः
विद्योतमान रमणीय रमाश्रिताङ्क ।
राकासुधाकरसहश्च निभास्य शोभा
निम्बाद्रिनाथ नृहरे तव सुप्रभातम् ॥ ९॥
पद्मालया सरसि नित्य कृतावगाहा
शुद्धश्च वासवमुखा सुरभक्तसङ्घाः ।
तिष्ठन्ति दार्वि तव भैरवभक्तरुद्धाः
निम्बाद्रिनाथ नृहरे तव सुप्रभातम् ॥ १०॥
श्रीनिम्बशैल पिचुमर्थक पुण्यभूभृ
निम्बाद्रि निम्बगिरिमालक गोत्रनाम्ना ।
नित्यं वदन्ति निपुणास्तव गोत्रराजं
निम्बाद्रिनाथ नृहरे तव सुप्रभातम् ॥ ११॥
दुष्टं स्वपुत्ररिपुमुद्धतगर्वमत्तं
स्तम्भे रमं कनककश्यपु नामधेयम् ।
हर्तुं नृसिंहवपुषा सुषुषाविराज
निम्बाद्रिनाथ नृहरे तव सुप्रभातम् ॥ १२॥
भक्तस्य वागवितथं सततं प्रकर्तुं
सर्वेषु वस्तुषु च नित्यमदभृवृत्तिम् ।
सन्दर्शयन् दनुजनालकृतावतार
निम्बाद्रिनाथ नृहरे तव सुप्रभातम् ॥ १३॥
आदित्यसोमकुजसौम्य सुरार्यशुक्र
स्वर्भानुकेतुमुखदिव्यनवग्रहास्ते ।
तिष्ठन्ति दास्यमिह कर्तुमतन्द्रभावाः
निम्बाद्रिनाथ नृहरे तव सुप्रभातम् ॥ १४॥
मालूररूपधर कालहारौ च वायु
रिन्द्रोथ नैऋतिमुखाः ककुभीशदेवाः ।
तद्वास्थदण्डहतिमण्डितशीर्षदेशाः
निम्बाद्रिनाथ नृहरे तव सुप्रभातम् ॥ १५॥
त्वत्कन्दरोपरि लसच्छिखराग्रभागं
दृष्टवा प्रहृष्टमनसो भवभीतिबाधान् ।
त्यक्त्वा भजन्ति भवदीय नगाधिराजं
निम्बाद्रिनाथ नृहरे तव सुप्रभातम् ॥ १६॥
श्री धर्मपालनृपविप्र विरञ्चिरुद्र
त्रैशङ्कुसङ्गत महाषु विनाशकारिन् ।
भक्तैकभोग्य गुणमङ्गल धामनामन्
निम्बाद्रिनाथ नृहरे तव सुप्रभातम् ॥ १७॥
लक्ष्मीनृसिंह नखरायुध वीरसिंह
गीर्वाणसिंह गिरिशाषुविभङ्गवहः ।
दैत्येयजिह करिकुम्भ विघातसिंह
निम्बाद्रिनाथ नृहरे तव सुप्रभातम् ॥ १८॥
प्रह्लादपालक परात्परपापनाश
पिङ्गाक्ष पुण्यजन पीवर तुङ्गभङ्ग ।
पद्मालयार्चित पवित्रपदारविन्द
निम्बाद्रिनाथ नृहरे तव सुप्रभातम् ॥ १९॥
श्रीमान् श्रितार्तिहरसिन्धुसुतामनोब्ज
लोलम्ब पत्ररथशङ्खरथाङ्गपाणे ।
वात्सल्यपूर्ण वरदायक वासुदेव
निम्बाद्रिनाथ नृहरे तव सुप्रभातम् ॥ २०॥
श्रीमान्नृसिंह सुसटाब्द वृताब्जवक्त्रा
दंष्ट्रोरुदन्तनखशस्त्रधरत्रिनेत्र ।
चञ्चल्लगुद्रसनगर्जितनिर्जितारे
निम्बाद्रिनाथ नृहरे तव सुप्रभातम् ॥ २१॥
वैकुण्ठसीम्नि वितता विरजा सुधोद्या
लीलाविभूतिमधिगम्य पदाश्रिता ते ।
मोक्षप्रदेति विदिता रुचिरप्रवाह
निम्बाद्रिनाथ नृहरे तव सुप्रभातम् ॥ २२॥
श्रीबेमुगल्पुरसमागतवेदरूपाः
ते माध्ववैष्णवगणाः शतशो वसन्ति ।
नेत्त्वा पयोद्य कमलालमला करीय्यं
निम्बाद्रिनाथ नृहरे तव सुप्रभातम् ॥ २३॥
लक्ष्मीपते नरहरे नखदंष्ट्रशालिन्
दारिद्रयदावदहन क्षमकालमेघ ।
भक्तार्तिभञ्जन बहुप्रदशेषशायिन्
निम्बाद्रिनाथ नृहरे तव सुप्रभातम् ॥ २४॥
प्रह्लादकारिज यतीन्द्र नरादि मौनि
नारायणानिल तनुजवरैश्च लक्ष्म्या ।
ताक्षर्येण भैरवमुनीन्द्रगणैश्च सेव्य
निम्बाद्रिनाथ नृहरे तव सुप्रभातम् ॥ २५॥
कल्याणरूप कमलाश्रितवत्सभाग
कन्दर्पकोटि सुकुमार करालदंष्ट्रा ।
कारुण्यपूर्ण घनकौस्तुभरत्नहार
निम्बाद्रिनाथ नृहरे तव सुप्रभातम् ॥ २६॥
कार्तिकमासशरदिन्दु विकासपूर्ण
राकातिथौ तव रथोत्सवसेवनाय ।
प्रत्यब्दमब्जभव वृन्दमितोभियाति
निम्बाद्रिनाथ नृहरे तव सुप्रभातम् ॥ २७॥
श्रीनिम्बशैल नृहरेरिह सुप्रभातं
लिङ्गापुरीनिलय लक्ष्मणनामकेन ।
भक्त्याकृतं प्रतिदिनं सरसं पठन्ति
तेषां ददाति नृहरिर्धनपुत्रभोगान् ॥ २८॥
इति श्रीनिम्बाद्रीलक्ष्मीनृसिंह सुप्रभातं सम्पूर्णम् ।
श्रीलक्ष्मीनृसिंहार्पणमस्तु ।
Proofread by M K Barman