पाण्डुरङ्गस्तोत्रम् १
(प्रथमं)
(अनुष्टुब् वृत्तम्)
प्रसादं कामये नित्यं (१)समदं पाण्डुरङ्गजं ।
नचोच्चैःश्रवसं नित्यं समदं पाण्डुरं गजम् ॥ १॥
वन्दे निजयशःपाननिष्ठं तं स्वरसादरं(२) ।
(३)शुद्धप्रेम्णामिष्टकायां तिष्ठन्तं स्वरसादरम् ॥ २॥
पाण्डुरङ्गं सकृन्नत्वा कलिना मलिना अपि ।
भवन्ति भावुका भास्वदुचयः(४) शुचयः सदा ॥ ३॥
संसृतौ कलिकाले यः सदरः (५) सदरस्तुतेः(६) ।
विठ्ठलादभयं प्राप्तः करुणावरुणालयात् ॥ ४॥
यञ्चेतः पाण्डुरङ्गस्य सदा चरणसादरम् ।
तं(७) सन्तं नान्यमूचुर्ज्ञाः सदाचरणसादरम् ॥ ५॥
विठ्ठलेति जपेन्नाम पाण्डुरङ्गस्य यः सदा ।
कृपाकटाक्षा न विभोरन्त्यजं तं त्यजन्त्यहो ॥ ६॥
यः पिबत्यसकृन्नाम प्रभोर्भवगदार्दितः ।
ह्रेपयत्यमृत(८) किं न स कलौ सकलौषधम् ॥ ७॥
मोचिताः पाण्डुरङ्गेण पतिता अतितापतः ।
अयमेव कलौ कीर्त्या निजया विजयावहः ॥ ८॥
नाम्ना यः पाति यमलं(९) नाम्नायः स्तोतुमीश्वरम्(९) ।
यशसा यस्य सद्वृन्दं समहं(१०) तमहं भजे ॥ ९॥
वैरस्यदर्शिना स्वर्गे कलौ वैरस्य कारिणा ।
यशसास्य प्रभोस्तीर्थे सज्जना मज्जनालसाः ॥ १०॥
(११) वदन्ति विठ्ठलं विज्ञा जडेभ्योऽप्यतिदुर्लभा ।
या दीयते प्रभो! भक्तवश! सा यशसा तव ॥ ११॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा येऽन्येऽपि सङ्कराः ।
रङ्कराजमुखाः सर्वे कृताः श्रीशेन शङ्कराः ॥ १२॥
पूर्वं प्रयासेनाविद्याविनाशमलभन् जनाः ।
अद्य नाम्ना प्रभोः कष्टं विनाशमलभं जनाः ॥ १३॥
पाण्डुरङ्गपुरं मोहो (१२) वदत्यत्रत्यमानसे ।
कथं तिष्ठामि विजये हन्त तेऽहं तते सति ॥ १४॥
नामसङ्कीर्तनप्रायं पाण्डुरङ्गपुरं विना ।
भ्रमम्भवति मेदिन्यां परितोऽपारतोषभाक् ॥ १५॥
पाण्डुरङ्गपुरे पीतप्रभुनामयशःसुधाः ।
बुधाः स्मरन्ति न स्वर्ग रष्टचक्रगदायुधाः ॥ १६॥
तीर्थान्यायाति सर्वाणि दैवतान्युस्सुकानि यत् ।
द्रष्टुं भगवतः को न चत्वरं सत्वरं व्रजेत् ? ॥ १७॥
पाण्डुरङ्गपुरं प्राप्य सर्वो ना (१३) रदति स्फुटम् ।
हरिनामयशोगाननिरतोऽविरतोत्सवः ॥ १८॥
पाण्डुरङ्गपुरं सन्तो भूवैकुण्ठं वदस्यहो! ।
एतत्तु सर्वसुलभं कुलभञ्जनमंहसाम्(१४) ॥ १९॥
प्रवर्तितेन परमामृतसत्रेण सर्वदा ।
पुण्डरीकेण सर्वोऽपि सत्रपः(१५) सत्रपः(१६) कृतः ॥ २०॥
पुण्डरीकेण सर्वार्यैः सत्कृतं सत्कृतं तथा ।
ब्रह्माण्डेत्र न केनापि कविना भविनाऽमलम्(१७) ॥ २१॥
अमुना यमुनारोधः पूर्वं भीमरथीतटं ।
पश्चादलङ्कृत गोपच्छद्माना पद्मानाभिना(१८) ॥ २२॥
दयालुना भगवता पाण्डुरङ्गेण बन्धुना ।
दीना हीना निजगतिं गमिता अमिता जनाः ॥ २३॥
पाण्डुरङ्गः प्रभुभक्तबहुमानवशंवदः ।
बिभर्ति भर्ता जगतां शिरसातिरसाच्छिवम्(१९) ॥ २४॥
शृण्वत्रभङ्गाननिशं तृप्तो नाद्यापि विठ्ठलः ।
कथं हरन्तु न सतामुक्तयो मुक्तयोगिनः(२०) ॥ २५॥
धीः श्रियं जनता भक्तौ तामसीमामुदारतां(२१) ।
जानात्वच्छा(२२) प्रभोर्वेत्ति तामसीमामुदारताम् ॥ २६॥
मधुपा अप्सु राजीवं, सुरा जीवं(२३) यथा दिवि ।
उपासते तथा सन्तं पाण्डुरङ्गपुरे जनाः ॥ २७॥
पाण्डुरङ्गपुरस्था ये जीवन्मुक्ता हि तेऽखिलाः ।
यत्प्रभूक्तिः स्वतीर्थाप्तमज्जना मज्जना(२४) इति ॥ २८॥
मज्जनं चन्द्रभागायां, पाण्डुरङ्गस्य दर्शनम् ।
कीर्तनश्रवणं यस्य स (२५)महासमहा भवे ॥ २९॥
तीर्थ क्षेत्रं पाण्डुरङ्गो नामसङ्कीर्तनं कलौ ।
मलौधहृत्स्वमहसा सहसा रचितेंऽजलौ ॥ ३०॥
विदा(२६) ज्ञानेन ठान् शून्यान् लाति गृह्णाति विठ्ठल ।
निरुक्तमिदमस्माकं चरमं परमं बलम् ॥ ३१॥
जडोद्धारयशोग्रन्थग्रहह्रीतसुमेधसे ।
नमो भगवते तस्मै पाण्डुरङ्गाय वेधसे ॥ ३२॥
नमोऽस्तु पितृभक्ताय पुण्डरीकाय साधवे ।
जडोद्धारव्रतं पुण्यप्रभावाद्यस्य माधवे ॥ ३३॥
ज्ञानदेवैकनाथाद्या नामदेवादयोऽपरे ।
तेभ्यो नमोऽस्तु यैर्भक्तया राञ्जितोऽरं जितोऽजितः(२७) ॥ ३४॥
इति श्रीरामनन्दनमयूरेश्वरकृतं पाण्डुरङ्गस्तोत्रं सम्पूर्णम् ।
टिप्पणि
१। समदं शमदम् ।
२। स्वे आत्मनि यो रसस्तस्मिन्नादरो यस्य तम् ।
३। स्वरे, शुद्धप्रेम्णा गाने सादरम् ।
४। भास्वद्रुचयः सूर्यकान्तयः ।
५। दरेण भीत्या सहितः ।
६। सद्भिः अरं प्रभूतं स्तुतिर्यस्य तस्मात् ।
७। ज्ञाः पण्डितास्तं सन्तं सदाचरणे सादरं नान्यमूचुरित्यन्वयः ।
८। अमृतं सः पुरुषः कलौ सकलौषधं शुण्ठीं न ह्रेपयति किं ? इत्यन्वयः ।
९। यमीश्वरं स्तोतुमाम्नायो नालमित्यन्वयः ।
१०। सानन्दम् ।
११। विज्ञाः पण्डिता विठ्ठलं वदन्ति । हे भक्तवश ! अतिदुर्लभा या मुक्तिर्जडेभ्योऽपि दीयते सा न त्वया किन्तु तव यशसा यशोगानेनेत्यन्वयः ।
१२। अत्रत्यमानसे वर्तमानो मोहः पाण्डुरङ्गपुरं वदति । हन्तेति खेदे । स्वयोत्यध्याहार्यम् । त्वयि तते सति सर्वत्र प्रथितयशसि सति अहं ते तव विजये कथं तिष्ठामि । त्वां विजेध्ये इत्यर्थः ।
१३। रदति विदीर्णो भवति । द्रवीभवतीत्यर्थः ।
१४। पापानाम् ।
१५। सत्रपो देवः । देवलोक इत्यर्थः ।
१६। लज्जान्वितः ।
१७। भवः संसारोऽस्त्वस्व तेन । संसारिणेत्यर्थः ।
१८। पचनाभिना पद्मनाभेन विष्णुनेति यावत् ।
१९। अतिरसात्प्रेम्णोऽतिशयेन ।
२०। मुक्ताश्च योगिनश्च तान् ।
२१। असीमाममर्यादाम् ।
२२। अच्छा निर्मलैव धीस्तां, असीमाम्, उदारतां वेत्तीति योजना ।
२३। बृहस्पतिम् ।
२४। मम जनाः मद्भक्ताः ।
२५। अतितेजस्वी ।
२६। इयं विठ्ठलशब्दस्य निरुक्तिः ।
२७। अत्र कविमातृकायामपि समाप्तिद्योतको। लेखो न दृश्यते ।
Proofread by Rajesh Thyagarajan