पाण्डुरङ्गस्तोत्रम् २
(द्वितीयम्)
(पज्झटिकावृत्तं)
बालदिगम्बर एको धूर्तः स्वान्तहरो मनुरेव स मूर्तः ।
भीमरथीसरितस्तट आस्ते लोकाः स्ववर्श नीता आस्ते(१) ॥ १॥
सर्वस्वस्य करोत्यपहारं तदपि वदन्ति जनास्तमुदारम् ।
द्रष्टुं यान्ति च वारंवारं प्रेम्णा श्लिप्यन्त्यपि चमुदारम् ॥ २॥
श्लिष्यन्त्येनं सुदृढं योषाः स्वामिसमक्षमचिन्तितदोषाः ।
चित्रमिदं विगतेर्ष्यारोषाः सर्वेऽपि भवन्त्येव सतोषाः ॥ ३॥
यस्य पुरः स्वजनेऽप्यनुकालं विवशा भापण्डितमावालं ।
गायन्त्युच्चैः कृतकरतालं नृत्यन्ति च विहसन्ति बतालम् ॥ ४॥
यं दृष्ट्वैव सकृस्खलु देहं सधनतनयदयितं निजगेहं ।
स्मरति म हृदयं त्यक्तस्नेहं वशिनं मन्ये तमसन्देहम् ॥ ५॥
इति श्रीरामनन्दनमयूरेश्वरकृतं पाण्डुरङ्गस्तोत्रं सम्पूर्णम् ।
१। आः ते इति पदच्छेदः ।
Proofread by Rajesh Thyagarajan